________________
२३७
सर्ग ४ श्लो० ४५-४७] हीरसौभाग्यम्
श्रीइन्द्रदिन्नबतिसार्वभौम-स्तत्पट्टलक्ष्मीतिलक बभूव । निशुम्भ्यते दाम्भिकता स्म येन, कलिन्दकन्येव हलायुधेन ॥४५॥
श्रिया षट्त्रिंशत्सूरिगुणलक्ष्म्या कलितः सुप्रसिद्धिमान् इन्द्रदिन्ननामा वतिनां वाचंयमानां मध्ये सार्वभौमश्चक्रवर्ती तयोः सुस्थितसुप्रतिबद्धाचार्ययोः पट्टलक्ष्म्यास्तिलक विशेषको बभूव संजातः । स कः । येन भगवता दाम्भिकता दम्भधारिता कापट्यं निशुः म्भ्यते स्म निर्दलितम् । केनेव हलायुधेनेव । यथा बलभद्रेण कलिन्दकन्या यमुना निशुम्भिता । पराभूतेत्यर्थः । 'रुक्मिप्रलम्बयमुनाभिदनन्तभाल-' इति हैम्यां रामनामसु ॥
શ્લેકાર્થ સાધુઓમાં ચક્રવર્તી સમાન ઈન્દ્રદિન નામના આચાર્ય સુસ્થિત અને સુપ્રતિબદ્ધસૂરિની પલક્ષ્મીના તિલકરૂપ બન્યા. જેમ બલભદ્ર યમુનાને પરાભવ કર્યો હતો તેમ આ ઈદિનસરિએ દાંભિક્તારૂપ યમુનાને સદંતર નાશ કર્યો હતો. પાપા
पक्षद्वयं भिन्नतमोभरेण, पित्रोः पवित्रीक्रियते स्म येन । कुबेरदिग्दक्षिणयोः पदव्यो-र्द्वन्द्व प्रियेणेव पयोजिनीनाम् ॥४६॥
येन इन्द्रदिन्नसूरिणा पित्रोर्जननीजनकयोः पक्षद्वय वंशद्वन्द्वम् । मातृवंशः पितृवंशश्चेत्यर्थः । पवित्रीक्रियते स्म पावनीचक्रे । केनेव । प्रियेणेव । यथा पयोजिनीनां कमलिनीनां भर्ना भानुना कुबेरदिग्दक्षिणयोः उत्तरायाम्योः पदव्योर्गियोर्द्वन्द्वं युगल पवित्र्यते । येन भानुना च किंभूतेन । भिन्नो निर्दलितस्तमसामज्ञानानां पाप्मनां वा ध्वान्तानां च भरः समूहो येन ॥ इति श्रीइन्द्रदिन्नसूरिः ॥
બ્લેકાર્થ અંધકારનો નાશ કરનાર સૂર્ય, જેમ ઉત્તર અને દક્ષિણ દિશાના માર્ગને ઉજજ્વલ કરે છે અર્થાત્ પ્રકાશિત કરે છે, તેમ અજ્ઞાનરૂપી અંધકારને નાશ કરનારા ઇન્દ્રન્નિસૂરિએ માત-પિતા ઉભયના વંશને ઉજજવલ બનાવ્યો
श्रीदिन्नसरिर्गुणभूरिरस्मात् , सप्तर्षिभूरङ्गिरसो यथासीत् । .. येनानुरागोऽवधि कालनेमिः, कल्लोलिनीवल्लभशायिनेव ॥४७॥
अस्मात् श्रीइन्द्रदिन्नसूरेः श्रीदिन्नसूरिरासीत् । किंभूतः। गुणा भूरयो बहुला यस्मिन् । कस्मात्क इव । अङ्गिरसः सप्तर्षिभूरिव । यथा । अङ्गिरा नाम तापसविशेषस्तस्मात् बृहस्पतिर्जातः । 'बृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः । सप्तर्षयश्चित्रशिखण्डिनः' इति हैम्याम् । तथा। 'गी हत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः' इत्यपि हैम्याम् । येन दिन्नसूरिणा अनुरागो हतः। केनेव । कल्लोलिनीवल्लभशायिनेव । यथा नारायणेन कालनेमिर्नामा दैत्यो निहन्यते स्म ॥