________________
२३४
हीरसौभाग्यम् [सर्ग ४ श्लो० ३८-४० मरुद्गृहादार्यसुहस्तिमूर्ति-भूमौ मरुदृक्ष इवोतत्तार । कृपार्णवेन द्रमकोऽपि येन, त्रिखण्डभूमिप्रभुतामलम्भि ॥३८॥
आर्यसुहस्तिनामा सूरिस्तस्य मूर्तिः शरीर यस्य तादृशः । उत्प्रेक्ष्यते । मरुद्गृहात् स्वर्गलोकात् मरुद्वक्षः कल्पद्रुमः भूमौ पृथिव्यामुत्ततार अवतीर्णवान् आगतवानिव । कृपार्णवेन दयासमुद्रेण येनार्यसुहस्तिसूरिणा द्रमको भिक्षुकोऽपि त्रिखण्डभूमेः षोडश सहस्रदेशक्षोणेः प्रभुतामाधिपत्यमलम्भि प्रापितः ॥
શ્લોકાર્થ શ્રી આર્યસુહસ્તિ મહારાજાનું શરીર જાણે આ પૃથ્વી પર સ્વર્ગલોકમાંથી સાક્ષાત કલ્પવૃક્ષ ઉતરી આવ્યું ન હોય ! તેવું હતું કારણકે દયાસાગર એવા શ્રી આર્ય સુહસ્તિ મહારાજાએ ભિક્ષુકને પણ ત્રણ ખંડને અધિપતિ અર્થાત સોળહજારદેશની ભૂમિને નાથે બનાવ્યો હતો. ૩૮
भूसुभ्रुवो भर्तु तया प्रगल्भ-भूषाविशेषानिव शातकौम्भान् । सपादलक्षानिह संप्रतियों, निर्मापयामास महाविहारान् ॥३९॥
यो द्रमकजीवः संप्रतिनृपतीभूय इह स्वभुजबलसाधितत्रिखण्डभूमीमण्डले महाविहारान् उत्तुङ्गशृङ्गाङ्गणोल्लिखितगगनतलान् प्रासादान्निर्मापयामास शिल्पिभिः कारयति स्म । किंभूतान् । सह पादेन एकेनांशेन पञ्चविंशतिसहस्रमितभागेन वर्तते यत्तादृश लक्ष शतसहस्राणि येषु तान् । सापादलक्षप्रमितानित्यर्थः । उत्प्रेक्ष्यते। भर्तृतया स्वामित्वेन भूरेव सुभ्रः भूमीभामिनी तस्याः शातकुम्भानां स्वर्णानामिमे शातकौम्भास्तान् । हिरण्मयानित्यर्थः । प्रगल्भान् मनोज्ञान् भूषार्थ शोभाकृते विशेषान तिलकानिव । अथ वा अतिशयिनोऽलंकारानिव ॥
પ્લેકાર્થ તે ભિખારીના સંપ્રતિરાજારૂપે થઈને, પિતાના બાહુબળથી ત્રણ ખંડની પૃથ્વી પર શ્રીજિનેશ્વરભગવંતના ગગનચુંબી એવા સવા લાખ મંદિર બંધાવ્યાં, તે સંપ્રતિરાજાએ પૃથ્વીરૂપી ત્રીના પતિ હેવાથી, પૃથ્વીના સૌંદર્યની શોભા માટે જાણે સુવર્ણનાં તિલકે બનાવ્યાં ન હોય ? ૩૯
यः संप्रतिक्षोणिपतिः सपाद-कोटीर्नु पेटीः स्वयशोनिधीनाम् । स्याद्वादिनां सद्मसु शिल्पिसंधै-रचीकरत्पारगतीयमूर्तीः ॥४०॥
यः संप्रतिम क्षोणिपतिः राजा शिल्पिनां सूत्रधाराणां संधैः समूहैः । संघसार्थों तु देहिनां वृन्दे' इति हैम्याम् । स्याद्वादिनामर्हतां सद्मसु गृहेषु स्वकारितप्रासा देषु अन्यत्रापि च पारगतानामिमाः पारगतीया मूर्तीः प्रतिमा जिनेन्द्रबिम्बानि अचीकरत निर्मापयामासिवान् । किंभूताः । सह पादेनकेन पञ्चविंशतिलक्षरूपेण अंशेन युक्ताः कोटीः शतलक्षी इति संख्या यासु ताः इति व्युत्पत्त्या व त्वम् । अन्यथा तु एकत्वमेव