SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३२ हीरसौभाग्यम् सर्ग ४ श्लो० ३३-३५ पण्याङ्गनायाः कोशावेश्यायाः किलकिञ्चितानि प्रमोदगदिततालीवादनगीतादिव्यामिश्रक्रीडालीककपोलात्मपाणिनिवेशनाश्रुपातघातहर्षभि(भ)यादिसंकराः । यस्य श्रीस्थूलभद्रस्य हृदि मानसे प्रवेश स्थान न लेभिरे न प्राप्नुवन्ति (स्म) । यद्वद्यथा धनुर्भूतो धनुर्धरस्य पृषत्कानां बाणानां पङ्क्तेः श्रेण्याः प्रहृतानि प्रहाराः सानुमतः पर्वतस्य शिलायामुपलक्षणात् गण्डोपले प्रवेश न लभन्ते ॥ જેમ અજેય ધનુર્ધારીના તીર્ણ બાણોના પ્રહારે પર્વતી શિલાઓમાં પ્રવેશ કરી શકતા નથી તેમ કશાના હાવભાવ આદિ અનેક પ્રકારના કટાક્ષો શ્રીસ્થૂલભદ્રના હૃદયમાં પ્રવેશી શક્યા નહી, અર્થાત હૃદયને ભેદી શકયા નહી. ૩૩ प्रानिर्जितश्रीरथनेमिमुख्य-वीरावलीनामिव वैरशुद्धः । विधित्सयाऽध्यास्य तदाश्रय यो, ध्यानासिनाऽनङ्गनृपं जघान ॥३४॥ यः स्थूलभद्रो ध्यान प्रणिधान तदेव असिः खड्गस्तेन कृत्वा अनङ्गनाम्मान नृपं राजान जघान हतवान् । किं कृत्वा । अध्यास्य आश्रित्य । प्रविश्येत्यर्थः । कम् । तस्य अनङ्गस्यैव कोशावेश्यामन्दिररूपमाश्रय स्थान गृहं वा । 'पस्त्य संस्त्याय आश्रयः । ओको निवास आवासो वसतिः शरण क्षयः ॥' इति हैम्याम् । उत्प्रेक्ष्यते-वैरशुद्धेविरोधशोधनस्य विधित्सयेव कर्तुमिच्छयेव । कासाम् । प्राक् पूर्वकाले निर्जिताः पराभूता ये। श्रीमान् महावीरत्वलक्ष्मीकलितः श्रीनेमिनाथसहोदररथनेमिः । स एव प्रमुखो मुख्यः आदिमो येषु । नन्दिषेणार्द्रकुमाराषाढभूतिमुखाः। परेऽपि वीराः पश्चात् पराक्रमकारकत्वात् सुभटास्तेषामावल्यः श्रेण्यस्तासाम् ॥ બ્લેકાર્થ રથનેમિ, નંદિષેણ, આદ્રકુમાર, આષાઢભૂતિ આદિ વીરપુરુષોને જેણે પૂર્વે પરાજિત કર્યા છે, એવા અનંગ-કામદેવરૂપી રાજાને, તે બધા વીરપુરુષોના પરાજય-વેરની વસુલાત માટે એના જ ઘરમાં રહીને (કામદેવના ગૃહ સમાન કોશાના ઘરમાં રહીને)પતાની ધ્યાનરૂપી તીક્ષ્ણ તલવારથી જેમણે (भवने) ७९ नाभ्यो, ॥३४॥ चक्रीव रत्नानि चतुर्दशापि, पूर्वाणि धत्ते स्म पतिर्यतीनाम् । यश्च कचिद्देवकुले स्वजामीः, चित्रीयितुं सत्य इवाऽऽस सिंहः ॥३५॥ यः स्थूलभद्रः चतुर्दशापि पूर्वाणि क्वचित्सूत्रतः क्वचित्सूत्रार्थतः । इति प्रघोषः । धत्ते स्म । धारयति स्म। किंभूतः । यः यतीनां साधूनां पतिः स्वामी गणधरः। क इव। चक्रीव । यथा चक्रवर्ती चतुर्दशरत्नानि धत्ते । च पुनर्यः क्वचित्कुत्रचिद्देवकुले यक्षाद्यायतने । क्वचिसिंहगुहायामपीति श्रूयते । यक्षा, यक्षदिन्ना, भूता, भूतदिना, सेना, वेना, रेणा । क्वचिदेणापि नामद्वन्द्वम् । एतन्नाम्नीः स्वजामीः सप्तापि निजभगिनीः । क्वचिदेकामेकैव
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy