SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१० हीरसौभाग्यम् [ सर्ग ३ श्लो० १२४ - १२६ यथा जयो वासवसूनुः जयन्ती स्वजामि शक्रपुत्री मिलितुमुत्कण्ठावान् भवति । किं कृत्वा | चिरस्य चिरकालेन शोक प्रेमबन्धाजात परितापं निरस्य त्यक्त्वा । शोकहेतुमाह - किं कृत्वा । कृत्वा विधाय । किम् । और्ध्वदेहिक परलोकगमन दिवसे दानजलाअलिप्रमुखम् । कयोः पित्रोः स्वजननीजनकयोः । कथम् । सह । कैः । वंश्यैर्गोत्रिभिः । किंभूतैः । निजैरात्मीयैः । केन । विधिना यथोक्तलोकप्रकारेण । असौ किंभूतः । विधिमाचार जानातीति विधिज्ञः । पित्रोः किं कुर्वतोः । समाधिं धर्मध्यान' भजतोः सेवमानयोः । पुनः किंभूतयोः । गतवतोः प्राप्तवतोः । कम् । दृग्गोचर नयनविषयम् । कासाम् । त्रिदशानां देवानां पद्मदृशां स्त्रीणां देवाङ्गनानाम् । स्वर्गतयोरित्यर्थः । केन क्रमेण । आयुः पर्यन्तसमयपरिपाट्या । उत्प्रेक्ष्यते - सुरसद्मनि देवलोके विलसितु क्रीडितु सोत्कण्ठयोः सह उत्कण्ठया वर्तेते यौ तौ तादृशयोरिव । औत्सुक्ययुक्तयोरित्यर्थः । किं कृत्वा । अवनीवलये भूमण्डले विलास भोगोपभोगादिक्रीडां निर्माय । कथम् । यथेच्छ स्वाभिलाषपूरणपर्यन्तम् । कुमारावस्थायामपि तस्य शौण्डीर्यातिशय दर्शयितु कलभशब्दग्रहणम् । कलभस्त्रिंशदब्दकः ॥ લેાકા હીરકુમારના માતાપિતા અનુક્રમે સમાધિપૂર્વક સ્વર્ગવાસી થયા, ભૂલેાકનાં સાંસારિક સુખાને યથેચ્છપણે ભાગવટા કરીને હવે સ્વર્ગનાં સુખા ભાગવવા માટે જાણે ઉત્ક્રાંતિ થયાં ન હેાય ! શ્રીમતેામાં શ્રેષ્ઠ એવા હીરકુમાર માતપિતાના સ્વગમનથી શાકાતુર થયા, છતાં વ્યવહારકુશળ કુમાર લાકવ્યવહારને અનુસારે પેાતાના જ્ઞાતિજના-સ્વજનેાની સાથે માતપિતાના અગ્નિસંસ્કાર, જલાંજલિ આદિ લૌકિક વિધિ કરીને દીકાળે શાકમુક્ત બન્યા. ત્યારબાદ હીરકુમાર ઈંદ્રના પુત્ર જયંત જેમ પેાતાની ભગિની જયંતીને મળવાને ઉત્સુક થાય તેમ પેાતાની જ્યેષ્ઠ ભગિની ‘વિમલા’ તે મળવા માટે ઉત્સુક થયા. ૫૧૨૪ા૧૨પા गन्तु ततः स्पृहयता प्रति पत्तनं स्व भृत्येन तेन सतुरङ्गयुगः शताङ्गः । आनाय्यते स्म नमुचेर्दमनेन जम्बू atr faaratea पालकनिर्जरेण ॥ १२६ ॥ ततो भगिनी मिलनोत्कण्ठानन्तर तेन हीरकुमारेण कर्त्रा स्वभृत्येन निजसेवकेन कृत्वा शताङ्गी रथ आनाय्यते स्म आनायितः । किंभूतः शताङ्गः । सह तुरङ्गयोरश्वयोयुगेन युगलेन वर्तते यः सः । किं कुर्वता । पत्तनमणहिल्लनाम पुटभेदन गन्तु प्रस्थातु स्पृहयता इच्छता । केनेव । नमुचेर्दमनेनेव । यथा नमुचिनामा दैत्यविशेषस्तस्य हन्त्रा पुरंदरेण जिनेन्द्राणां जन्मादिकल्याणकेषु महोत्सवकरणार्थ जम्बूद्वीपं प्रति गन्तुमिच्छता पालकनाम्ना निर्जरेण पालकाख्य विमानमानाय्यते ॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy