________________
१४
LANKAN
OOOOO
AAD
नानाविधाध्यात्मिकभावरत्न__ प्रभाभरोभासितचित्तभित्तौ । परिस्फुरन्मूलगुणेन्दुकान्ता- भिबद्धसत्कुट्टिमसन्निवेशे ॥१४॥ विसृत्वरैरुत्तरसद्गुणौघैः
प्रपञ्चितानन्तवितानशोभे । स्वकर्मरन्ध्राख्यगवाक्षलम्बि ___ मुक्तावचूलोपमधीगुणौघे ॥१५॥ प्रधूपिते निर्मलवासनाभिः
सुसत्त्वकर्पूररजोऽभिरामे। विसृत्वरीभिः श्रुतधारणाभिः ____ कस्तूरिकाभिः सुरभीकृते च ॥१६॥ छायाभरै र्ध्वस्तसमस्तकर्म
धर्मप्रचारे स्वविलाससिद्धैः । नीते सदा शीतलतां च शील
लीलाभिधैः सांक्रमिकाम्बुयन्त्रैः ॥१७॥
MalaAAAAAAARADARANA