________________
ગાથા વ્યાખ્યાનની પાદટીપે
'महाभारत' (चित्रशाला सं२४२) अनुशासनपर्व १४१.८८ - ૯૦માં ચાર પ્રકારના ભિક્ષુઓનું વર્ણન આવે છે; ૧૪૧.૯૫-૧૧૫માં વાનપ્રસ્થાનું વન છે. તેવું જ વન ૧૪૨.૪-૩૩માં છે. પંચાગ્નિ તપતા ઉલ્લેખ ૧૪૨.૯માં છે; વિવિધ મરણા ૧૪૨.૪૪-૫૯માં તેમજ તાપસાનું વર્ણન ૧૪૨.૩૪માં છે. ‘ રામાયણ 'માં શબૂક તાપસની કથા કાંડ છ, અધ્યાય ૬૫-૬૬માં આવે છે.
'श्रीमद्दभागवत 'गत ऋषलयरित,
धप, अध्याय ५.
3. " . भरतं धरणिपालनायाभिषिच्य स्वयं भवन एवोर्वरित - शरीरमात्रपरिग्रह उन्मत्त इव गगनपरिधानः प्रकीर्णकेश आत्मन्यारोपिताहवनीयो ब्रह्मावर्तात् प्रवव्राज ॥ २८ ॥
१२७
जडान्धमूकबधिर पिशाचोन्मादकवद वधूतवेषोऽभिभाष्यमाणोऽपि जनानां गृहीतमौनव्रतस्तूष्णीं बभूव ॥ २९ ॥
तत्र तत्र पुरग्रामाकरखेटवाटखर्वटशिबिरव्रजघोषसार्थ गिरिवनाश्रमादिष्वनुपथमवनिचरापसदेः परिभूयमानो मक्षिकाभिरिव वनगजस्तर्जनताडनाचमेहनष्ठीवनग्रावश कृद्रजः प्रक्षेपपूतिवात दुरुक्तैस्तदविगणयन्ने वा सत्संस्थान एतस्मिन् देहोपलक्षणे सदपदेश उभयानुभवस्वरूपेण स्वमहिमावस्थानेनासमारोपिताहं ममाभिमानत्वादविखण्डितमनाः पृथिवीमेकचरः परिबभ्राम ॥ ३० ॥
. परागवलम्बमानकुटिलजटिल कपिश केशभूरिभारोऽवधूतमलिननिजशरीरेण ग्रहगृहीत इवादृश्यत ।। ३१ ।।
यहि वा स भगवान् लोकमिमं योगस्याद्धा प्रतीपमिवाचक्षाणस्तत्प्रतिक्रियाकर्म बीभत्सितमिति व्रतमाजगरमास्थितः शयान एवाश्नाति पिबति खादत्यवमेहति हृदति स्म चेष्टमान उच्चरित आदिग्धोद्देशः ॥ ३२ ॥
... एवं गोमृगकाकचर्यया वजंस्तिष्ठन्नासीनः शयानः काकमृगगोचरितः पिबति खादत्यवमेहति स्म ।। ३४ ॥
इति नानायोगचर्या चरणो भगवान् कैवल्यपतिऋषभोऽविरतपरममहानन्दानुभव आत्मनि सर्वेषां भूतानामात्मभूते भगवति वासुदेव आत्मनो