________________
ચૈત્યવન્દન મહાભાષ્ય
ઉપયોગ ભિન્ન છે. આમ છતાં ચિત્ત અતિશય શીધ્ર કરનારું હોવાથી (= ઉપયોગનું પરાવર્તન અતિશય ઝડપથી થતું હોવાથી) તે બે ઉપયોગ એક જેવા થઈ જવાના કારણે જાણે એકી સાથે થાય છે એમ જણાય છે. (૨૪૨)
भणियं चसव्वत्थ वि पणिहाणं, तग्गयकिरिया-भिहाण-वनेसु । अत्थे विसए य तहा, दिद्रुतो छित्रजालाए ॥२४३॥ . भणितं चसर्वत्रापि प्रणिधानं तद्गतक्रिया-भिधान-वर्णेषु । अर्थे विषये च तथा दृष्टान्तः छिन्नज्वालया ।।२४३।। .
व्याख्या-सर्वत्रापि समस्तायामपि वन्दनायां । न केवलं तदन्त एवेत्यपिशब्दार्थः । प्रणिधानं चित्तस्योपयोगः कार्यं भवतीति शेषः । सामस्त्यमेव व्यक्तितं आह- तत्र वन्दनायां गता आश्रितास्तद्गतास्ते च क्रियाभिधानवर्णाश्चेति विग्रहः । अतस्तेषु । तत्र क्रिया मुद्राविन्यास-मुखस्थगन-भूप्रमार्जन-कायोत्सर्ग-करणादिका, अभिधानानि पदानि, वर्णास्तदेकदेशा अकारादयः । उत्तरस्तथाशब्दः समुच्चयार्थोऽत्र द्रष्टव्यः । अर्थे अर्हदादिपदाभिधेये । तद्गते इति विशेषणमिहाप्यनुसतव्यम् । विषये वन्दनाया गोचरे दृष्टिगोचरे वा जिनबिम्बे । चशब्दः समुच्चयार्थ एव । अथैकदैकजीवस्यानेकोपयोगाभावान सर्वत्र क्रियादौ प्रणिधानं भवतीत्याशङ्क्याह- दृष्टान्तो निदर्शनम् छिन्नज्वालया इन्धनस्थाग्नित्रुटितार्चिषा । इहेति शेषः, अयमर्थः- यया छिन्नज्वाला मूलज्वालायामसंबद्धतयोपलभ्यमानापि कथञ्चित्संबद्धेति प्रतिपद्यते तत्परमाणूनां परिणामान्तरापनानामवश्यंभावात् । यथा वा गृहान्तर्गतस्य दीपस्य गृहद्वारनिर्गता प्रभा व्यक्ततयाऽनुपलभ्यमानाप्यस्तीति प्रतिपद्यते, गृहान्तराभ्यन्तरे तस्या उपलभ्यमानत्वात्। इह च पक्षे प्रभा ज्वालोच्यते, सा च च्छिन्नाऽन्तरालेऽनपलब्धेरिति। एवं क्रियादीनामेकत्रोपलभ्यमानमपि प्रणिधानमन्यत्राप्यव्यक्ततयाऽवसेयमिति । अथवा छिन्नज्वाला अलातज्वाला । तस्याः प्रतिनियतदेशवर्तित्वेन च्छिन्नत्वात् । सा च यथा नियतदेशस्थापि भ्राम्यमाणेऽलाते चक्राकारं दण्डाकारं वा दधती स्वावगाहक्षेत्रादन्यत्राप्याशुवृत्तेरव
૧૧૦