SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आकार्य राजपुत्रांस्तान्, बभाषे मन्त्रिपुङ्गवः । · मन्यध्वं किं न भो भद्राः !, ज्वलिष्यत्यन्यथा कनी ।। २८ ।। मिथो मात्सर्यसंसक्त- मानसैस्तैरमानिते । चितायामविशत्कन्या, ललिताङ्गोऽपि पृष्ठतः ।। २९।। अपरे तु त्रयस्तुच्छ - स्नेहास्तत्रैव संस्थिताः । हाहाकारपरो लोको, मिथः कोलाहलं व्यधात् ||३०।। तावन्मन्त्रिनियुक्तेन !, नरेण प्रकटीकृतम् । चिताधस्तनभूभागे, सुरङ्गविवरं रयात् ।। ३१ ।। प्रविश्य तद्युगं तत्र ययौ मन्त्रिगृहे पुनः । प्रच्छन्नं कुरुते तत्र, स्नानपानादिकाः क्रियाः ।।३२।। राजपुत्रास्त्रयस्ते तु किञ्चित्सानुशयाशयाः । साहसं ललिताङ्गस्य, प्रशंसन्ति पदे पदे ||३३|| मन्त्रिणा ते पुनः पृष्टाः, युगलं तत्कदाचन । प्राप्नोति जीवितव्यं चेत्, ततस्तत्परिणाय्यते ।। ३४ ।। तेऽप्यूचुरत्र का पृच्छा ?, विवादं न वयं पुनः । करिष्याम इहार्थे तु, साक्षी सर्वोऽपि पूर्जनः ।। ३५ ।। प्रादुरासीत्ततो मन्त्रि-वाक्यात्तद्युगलं पुनः । पितृभ्यां च तयोस्तेने, पाणिग्रहमहोत्सवः ।। ३६ ।। ४० उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy