SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ तौ तत्रापि भवे प्रीती, चिरं गार्हस्थ्यधारिणौ । · प्रान्ते तु व्रतमादाय, स्वर्गे जग्मतुरश्रमम् ।।९।। मणिकुण्डलजीवस्तु, च्युत्वा तस्मात्सुरालयात् । विजयेऽथ महाकच्छे, विजयादिपुरे वरे ।।१०।। महासेननृपस्यासी-ललिताङ्गाभिधः सुतः । तत्रैव विजया रम्या, पुरी परमभूषणा ।।११।। पुरन्दरजसाजीवः, पूर्णकेतुनरेशितुः ।। तत्र पुत्री समुत्पन्ना, नाम्ना कमललोचना ।।१२।। मनोऽभिममतभर्तारं, सा वरीतुं समुत्सुका । . प्रतिज्ञामेवमाधत्त, व्यक्तां सर्वसखीपुरः ।।१३।। ज्योतिर्विद्या नभोगामि-विमानरचनापि च । राधावेधकला सर्प-विषनिग्रहणं तथा ।।१४।। एतेष्वेकतमेनापि, प्रकारेणापि योऽधिकः । भर्तारं तं करिष्येऽह-मन्यथा वह्निरस्तु मे ।।१५।। अथ प्रतिज्ञामेतस्याः, श्रुत्वा सोत्साहमानसाः । राजन्यास्तनयास्तत्त-त्कलाभ्यासं वितेनिरे ।।१६।। अथ स्वयंवरे तस्याः, प्रारब्ये समहोत्सवम् । ललिताङ्गमुखास्तत्र, कुमारा उपतस्थिरे ।।१७।। राधावेथे कुमारेण, साधिते सा नृपाङ्गजा । वरमाल गले तस्य, यावत्र्यस्यति सम्मदात् ।।१८।। ३८ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy