________________
नव्यानेकसदुक्तियुक्तिसरसैर्ग्रन्थैर्गरीयस्तरैः, स्वोपज्ञैरमृतहदैरिव जगत्तापाऽपहारक्षमाः । धौरेया उपकारकर्मणि सदा जाग्रत्प्रदापोदयाः, येऽम्भोदा इव जैनशासनवनं प्रोत्फुल्लमातन्वते ।।९।।
गच्छाधिपत्यपदवीमुपभुञ्जते ते, श्रीरत्नशेखरगुरुप्रवरा इदानीम् ।. शास्त्रोक्तसूरिगुणसम्पदमादधानाः, सम्यक् स्वशिष्यगणशिक्षणसावधानाः ..
१०॥
श्रीउदयनन्दिपादाः, सदा प्रसन्ना भवन्तु सङ्घाय । लोकोत्तरा यदीया, निरीहता दृश्यतेऽद्याऽपि ।।११।।
उल्लङ्घच्याऽन्यसतीर्थ्यान्, गुरुप्रसादोऽधिकोऽभवद्येषु । ते श्रीलक्ष्मीसागर-सूरिवराः सन्तु वः सिद्ध्यै ।।१२।।
तुर्येऽपि युगे येषां, श्रीवज्रस्वामिवत्सुसौभाग्यम् । श्रीसोमदेवसूरि-प्रवरास्ते सन्तु वो जयदाः ।।१३।।
अन्येऽपि सूरिवाचक-विबुधाः स्थविंरा जयन्तु साधुगणाः । जीवप्रदेशसंख्याः, गुणा यदीया विनयमुख्याः ।।१४।।
येषां बुद्धिरनुत्तराऽतिविषमग्रन्थार्थसाक्षात्कृतिम्, चेतःसद्मनि दीपिकेव सृजती प्रोजागरा सर्वदा । सर्वेषामुपयोगिनी समभवद्दानप्रदीपस्तथा, ग्रन्थो यद्विहितश्छिनत्ति कृतिनामद्याऽपि दुष्टं तमः ।।१५।। .
३१४ उपदेश सप्तति