________________
जाग्रद्भाग्यजुषां क्षमारसपुषां संविग्नचारित्रिणां, चातुर्विद्यविनोदिनां च समभूत् पतिर्यदीया धुरि । यैश्चाऽर्हन्मतकानने कलियुगेऽप्युन्मादवादिद्विपाऽहङ्कारप्रसरं निरस्य विदधे पञ्चाननस्फूजितम् ।।१।।
तपागच्छाधिराजाः श्रीसोमसुन्दरसूरयः । श्रीचन्द्रकुलश्रृङ्गारा, न केषां ते प्रमोददाः ।।२।। युग्मम् ।।
कृतशान्तिकरस्तोत्रा, नृपादिप्रतिबोधकाः । जितप्रवादा भान्ति श्री-मुनिसुन्दरसूरयः ।।३।।
सम्प्रतिप्रमुखाऽनेक-विषमग्रन्थभाणकाः । श्रेयो दिशन्तु सङ्घाय, जयचन्द्रगुरूत्तमाः ।।४।।
दक्षिणदेशविहारे, निर्दलितोद्धतकुवादिवृन्दमदाः । श्रीभुवनसुन्दराह्वाः, सूरिवरास्ते मुदं ददतु ।।५।। ,
एकादशाङ्गीसूत्रार्थो-दधिमन्दरभूधराः । जिनसुन्दरसूरीन्द्राः, न केषां हर्षहेतवः ।।६।।
जिनकीर्तिसूरिराजाः, गुरुगच्छहितोद्यता रताः सुकृते । संविग्नसाधुधुर्याः, जयन्तु सूत्रार्थसार्थभृतः ।।७।।
जगदाह्लादकवचसो, विशालराजा जयन्तु सूरिवराः । दग्धेऽपि वपुषि येषां, न भस्मसाझोलपट्टोऽभूत् ।।८॥ ..
३१३ उपदेश सप्तति