________________
स्युः सहस्त्रगुणा याव-द्रम्मा द्वादश ते मुने ! । प्रतिपद्येति नत्वा च, तं स्वमन्दिरमागतौ ।।२५।।
कियत्यपि गते काले, क्षीणे चाऽशुभकर्मणि । प्रायश्चित्तपदप्रोक्त-समस्तद्रविणार्पणे ।।६।।
प्राग्वत्तयोरजायन्त, द्वादशस्वर्णकोटयः । ततो मूर्द्धन्यतां प्राप्ती, समग्रव्यवहारिषु ।।२७।। ।
ज्ञानसाधारणद्रव्यो-सर्पणैकपरायणौ। . तौ जन्माऽवधि जैनाज्ञा-मखण्डामारराधतुः ।।२८।।
प्रान्ते तपस्यामादाय, प्रौढोत्सवपुरस्सरम् । चिरं चारित्रमाराध्य, क्रमाय सुगतिं गतौ ।।२९।।
एवं देवज्ञानसाधारणादि-द्रव्यं व्यक्त्या स्थापनीयं सुयुक्त्या । व्यापार्यं च श्रावकैस्तत्त्वविजैः, निर्लेपत्वं स्यात्तथा चिन्तनीयम् ।।३०।।
॥ इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे सप्तदश उपदेशः ।।१७।।
।। अथ प्रशस्तिः ।।
३१२. उपदेश सप्तति