________________
ततो निर्बुद्धिनिर्भाग्याविति लोकैर्दत्ताभिधानौ पदे पदे प्राप्ताऽपमानौ लज्जिती गतौ देशान्तरम् । स्थितौ च पृथक् पृथक् क्वाऽपि महेभ्यगृहे अन्योपायाभावाद्धृत्यवृत्त्या । यस्य च गृहे कर्मसारः स्थितः सोऽलीकव्यवहारी कृपणश्चेति उक्तमपि वेतनं न दत्ते अमुकदिने दास्यामीति वचसैव तं विप्रतारयति । ततो बहुभिरपि दिनस्तेन किमपि नार्जितम् । द्वितीयेन तु कियदर्जितमपि प्रयत्नगोपितमपि धूर्तेनापहतम् । एवमन्यान्यस्थानेषुः भृत्यवृत्त्या धातुवादसत्यवादसिद्धपुरुषरसायनरोहणाद्रिगमनमन्त्रसाधनरूदन्त्याद्यौषधिग्रहणादिना एकादशकृत्वोऽर्जितमपि धनं कुबुद्धिप्रमादादिकं निर्भाग्यतया च निर्गमितम् । ततोऽत्युद्विग्नीपोतमारुह्य रत्नद्वीपं गतो, द्वीपाधिष्ठायिकदेव्यग्रे मृत्युमप्यङ्गीकृत्य निविष्टौ । अष्टमे उपवासे नास्ति भाग्यं युवयोरिति कथने कर्मसार उत्थितः । पुण्यसारस्य त्वेकविंशत्युपवासैर्दत्तं तया चिन्तारत्नम् । कर्मसार: पश्चात्तापं कुर्वन् पुण्यसारेणोक्तः । बन्धो ! मा विषीद, अनेन चिन्तारत्नेन आवां द्वावपि सुखिनौ भाविनाविति विमृश्य हृष्टौ निवर्तमानौ पोतमारूढौ । रात्री च राकाशशाङ्कोदये वृद्धेनोक्तम्, भ्रात: ! स्फुटीकुरु चिन्तारत्नं विलोक्यते, तस्य चन्द्रस्य वाऽधिकं तेजस्ततो लघुनाऽपि पोततटस्थेन दुर्दैवप्रेरितेन हस्ते नीत्वा क्षणं रत्ने क्षणं चन्द्रे दृष्टिं निदधता कल्लोलादिषु व्यग्रचित्तत्नाया पातितं रत्नं रत्नाकरान्तः । ततो द्वावपि समदुःखौ स्वपुरं च प्राप्तौ दुःखेन कालं गमयतः ।
अथान्यदा पुरे तत्र, केवली कश्चिदाययो । आगत्य तं मुनि नत्वा, ताभ्यां पृष्टं च तत्पुरः ।।१।।
भगवन् ! कर्मणा केना-ऽस्माकं दुःखावलीदृशी । अपि वर्षशतैर्यस्याः, पारो नायाति वर्णने ।।२।।
३०८ उपदेश सप्तति