________________
"उपदेशः-१७" श्रीज्ञानसाधारणवित्तमास्तिकः, सङ्घानुमत्या न पुनर्निजेच्छया । व्यापार्यमत्राऽपि जिनागमोदितं, श्राद्धद्वयोदाहरणं निगद्यते ।।१।।
भोगपुरे नगरे २४ कनककोटिस्वामी धनावहश्रेष्ठी। तस्य पत्नी धनवती तयोर्युग्मजातौ सुतौ कर्मसारपुण्यसारो, पित्राऽन्यदा कीदृशावेतो भाविनाविति नैमित्तिकः पृष्टः, स प्राह, कर्मसारो जडप्रकृतिरतिनिष्प्रज्ञो विपरीतबुद्धितया सुबहूपक्रमेऽपि प्राच्यद्रव्यनिर्गमननव्य: द्रव्योपार्जुनाभावादिना बहुकालं दारिद्र्यादिदुःखवान् भावी।
पुण्यसारोऽपि प्राच्यद्रव्यस्य नवोपार्जितस्य च पुनः पुनर्हान्या तथैव दुःखी भावी, परं वाणिज्यादिकलाकुशलौ द्वावपि भाविनौ, द्वयोश्च वार्द्धके धनसौख्यसन्तत्यादि भावि । क्रमेणोपाध्यायस्य पाठनीयार्पितौ । पुण्यसारः सुखेन सर्वा विद्या अधीतवान् । कर्मसारस्य तु अक्षरमपि नायाति । वाचनलिखनाद्यपि कर्तुं न शक्नोति पशुप्रायः । पाठकेनाऽपि पाठनं मुक्तम् । यौवनस्थौ च तो पितृभ्यां महेभ्यकन्ये परिणायितौ सोत्सवम् । मा मिथः कलहो भावीति द्वावपि १२।१२ कनककोटीर्दत्वा पृथक्कृतौ । पितरौ तु प्रव्रज्य स्वर्गतौ । अथ कर्मसारस्य निजतत्तत्कुबुद्ध्या स्वजनादिनिषेधनेऽपि वाणिज्यादिविदंधतो यत्र तत्र विनाशस्यैव सम्भवात् द्वादशाऽपि स्वर्णकोटयो गताः । पुण्यसारस्यापि राजदायादतस्करवढ्याधुपद्रवैः स्तोकेनापि कालेन सर्वा अपि स्वर्णकोटयो गताः । जातो द्वावपि दरिद्रौ । त्यक्ती स्वजनादिभिः । भार्ये अपि क्षुधादिते गते पितृगृहे । यत: -
..
अलियंपि जणो धणवं-तयस्स सयणत्तणं पयासेइ। आसन्नबंधवेणवि, लजिजइ हीणविहवेण ।।१।। गुणवंपि निग्गुणश्चिय, गणिजए परियणेण गयविहवो । दक्खन्नाइगुणेहि, अलिएहिवि गिजए सधणो ।।२।।
.
.
३०७ उपदेश सप्तति