________________
श्राद्धाभिवादये तुभ्य-मिति वादिभिरुत्थितैः । आचम्य शुचिभिस्तोयै-स्तैः समं सोऽविशद् गृहम् ।।१८।।
कोटिश्राद्धकृते जात-मनपाकं क्षणादपि । दिव्यप्रभावादेकोऽपि, सोऽभुङ्क कपटाऽऽस्तिकः ।।१९।।
परिवेषयतानं रे !, बुभुक्षा व्याकुलस्य मे। कथं सूदाः ! दण्डवीर्यो, व्रीडापात्रं विधीयते ? ।।२०।।
तस्वरूपे चरे राजे, ज्ञापिते स्वयमेत्य सः । अपश्यत् क्षामकुक्षि त-मिव मासोपवासिनम् ।।२१।।
मायाश्राद्धोऽपि राजेन्द्रं, दृष्ट्वा श्रद्धासमन्वितम् । जगाद कठिनां वाचं, दीनभावं प्रकाशयन् ।।२२।।
राजन्नमी त्वया सूदाः नियुक्ताः श्राद्धवचने । .. मामप्येक क्षुधाक्षामं, वदमी प्रीणयन्ति न ।।२३।। '
तच्छ्रुत्वा कुपितः किञ्चि-दपाचयदिलापतिः । शतमूढकमानेन, सूदरग्नं स्वदृक्पुरः ।।२४।।
मायया स क्षणादेव, पश्यतो नृपतेस्तदा । जग्रसेऽनं यथा वह्निः, सर्वमिन्धनसञ्चयम् ।।२५।।
मायाश्राद्धः पुनः प्राह, जातेन भवताऽपि किम ? । पूर्वेषां यः कुलं कीर्ति, पुण्यं नाऽधिकतां नयेत् ।।२६।। .
३०५ उपदेश सप्तति