________________
द्वादशव्रतधारित्वात्, तावन्ति तिलकान्यपि । बिभ्राणं हृदये हेम-सूत्रत्रयविराजितम् ।।९।।
तं वीक्ष्य दण्डवीर्योऽभू-त्तस्मिन् सादरमानसः । क्रियाया डम्बरो यावां-स्तावांल्लोकादरोऽपि यत् ।।१०।।
कुतः समागतोऽसि त्वं ?, यियासा कुत्र वा तव ?।। इति भाषिणि भूपाले, मायया सोऽप्युवाच तम् ।।११।।
अहं श्रीअमरावत्या, पुरीतः श्राद्धवेषभृत् । तीर्थेषु यात्राः कुर्वाणः, प्राप्तोऽद्याऽत्र नराधिप ! ।।१२।।
अत्र शक्रावताराख्ये, चैत्ये श्रीऋषभप्रभुम् ।। स्तुत्वा भवन्तं दृष्ट्वा च, मयात्माऽयं पविंत्रितः ।।१३।।
आज्ञापयदथो सूदां-स्तद्भोजनकृते नृपः । अद्य तीर्थोपवासस्य, चिकीर्षास्तीति सोऽप्यवक् ।।१४।।
क्षपणस्य निर्वधं तु, भूपालाद्यैः कृते सति । स प्राप्तो दानशालासु, दृष्टिपूतं चरन् पथि ।।१५।।
पठतस्तत्र शास्त्राणि, वेदादीनि कृतोद्यमम् । कांश्चिद्ध्यानपरान्कांश्चि-त्कांश्चिदाचारशिक्षकान् ।।१६।।
त्रिकालदेवपूजाये, त्रिशुद्धया स्नानिनः परान् । क्रमात्संक्रन्दनः श्राद्धान्, वीक्ष्याऽऽप परमां मुदम् ।।१७।।
३०४ उपदेश सप्तति