SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ सौवर्णिकानां षड्लक्षी, तदानीमस्य दीयताम् । श्रुत्वेति देवीवाक्यं तैः, तस्याग्रे तन्निवेदितम् ।।१८।। सोऽप्याह निजपुण्यस्य, न लेशमपि वो ददे । कोट्यंशेऽपि भवद्द्रव्यं, मम दानस्य नार्घति ।। १९ ।। ततः स सत्त्वमालम्ब्य, चचाल स्वपुरं प्रति । स्वपुराऽऽसन्ननद्यां च क्रमादेत्य व्यचिन्तयत् ।। २० ।। अहो ! मे जैनधर्म्माप्त्या, नित्यं तुष्टस्य किं धनैः । परं मदीया गृहिणी, करोत्यातिं करोमि किम् ? ।। २१ । । तत्र मां प्रेषितवती, या महद्भिर्मनोरथेः ।' सा दृट्वेदृगवस्थं मां, मृतकल्पा भविष्यति ।। २२ ।। तदेतानुज्वलान्वृत्तान्, गृहीत्वा कर्करानपि । ग्रन्थौ निबध्य गच्छामि, गृहे सा प्रीयते यथा ।। २३ ।। विमृश्येति महान्तं तत्, पोट्टलं न्यस्य मस्तके । आगतो मन्दिरे श्रेष्ठी, साऽपि संमुखमागमत् ।।२४।। वित्तेन पूरितो भर्त्ता, प्राप्त इत्युल्लसन्मुखी । उत्तार्य मस्तकाद् ग्रन्थिं, मुमोच क्वाऽपि कोणके ।। २५ ।। पूजासत्पात्रदानादि-धर्म्ममाहात्म्ययोगतः । अथ ते कर्कराः सर्व्वे, जात्यरत्नानि जज्ञिरे ।। २६ ।। ३०१ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy