________________
अतिप्रेरणया तस्याः, उपवासदिनेऽपि सः । चलितः सार्द्धमादाय, सक्तूनामेव शम्बलम् ।।९।।
द्वितीयदिवसे क्वाऽपि, प्रदेशे पारणेच्छया । प्रस्वेद्य पयसा सक्तूं-चक्रे श्रीजिनपूजनम् ।।१०।।
तदा तद्भाग्ययोगेन, प्रेरितः कोऽपि संयतः । .. आगादत्त्वा च तस्मै त-च्छेषं च बुभुजे स्वयम् ।।११।।
स तेन पात्रदानेन, प्रमोदं परमं वहन् । चतुर्थदिवसे हीतः, इव तन्मन्दिरे ययौ ।।१२।।
अथ सत्यापयन्ति स्म, स्वागतादि परं न तें। .. अत्यादरं तस्य चक्रुः, पश्यन्तस्तं धनोज्झितम् ।।१३।।, '
तथापि स्वस्य निर्वाह-योग्यं याचितवान् कियत् । श्वशुराद्या अपि प्रोचु-स्तदा तस्येदृशं वचः ।।१४।।
श्रेष्ठिन साम्प्रतं व्याजो, न वाणिज्यं च तादृशम् । भवाद्दशामदेयं किं, परं युक्तिर्न तादृशी ।।१५।।
तथापि कुलदेवी चे-त्कथयिष्यति तद्धनम् । कियत्तवाऽर्पयिष्यामः, सा हि नः कामधेनुवत् ।।१६।।
तैः पृष्टा साऽप्यवादीत्तान्, यदेष पथि साम्प्रतम् । दानपुण्यं व्यधात्तस्य, षष्ठांशं चेद्ददाति वः ।।१७।।
३०० उपदेश सप्तति