________________
गच्छंश्च सरसि क्वाऽपि, कृतस्नानस्तरोरधः । विश्रान्तः क्षणमैक्षिष्ट, तावदेकं वरं नरम् ।।७।।
नरः प्रोवाच हे मन्त्रिन् ! अमुं वाञ्छितसिद्धिदम् । चिन्तामणिं गृहाण त्वं, प्रसीदानुगृहाण माम् ।।८।।
इत्युक्त्वा तं मणिं तस्य, समर्प्य स तिरोदधे । . स्वस्वरूपमनुक्त्वैव, हृष्टोऽमात्यो भृशं ततः ।।९।।
दर्शयामीशितुः पुण्य-प्रभावमिति चिन्तयत् । अभ्यर्च्य तं मणिं सैन्यं, चतुरङ्गमयाचत ।।१०।।
तत्प्रभावोपसम्पन्न-चतुरङ्गचमूयुतः । . . . स्वपुरे प्राहिणोतं, लेखहस्तं नृपान्तिके ।।११।।
,
दूतोऽप्युवाच पुण्याप्त-सैन्यो मन्त्री समागतः । विक्रमी यद्यसि माप !, तत्प्रहर्तुं बहिर्भव ।।१२।।
तं तादृशं चमूयोगं, श्रुत्वा दूतनिवेदितम् । . भूपः समग्रसभ्यानां, पुरस्तादिदमब्रवीत् ।।१३।।
वरेण्यं पुण्यमेवात्र, भो भोः सभ्याः ! निभाल्यताम् । एकाकी निर्गतोऽप्येष, प्राप्तः साम्प्रतमीदृशम् ।।१४।।
नृपोऽथ सम्मुखं गत्वा, मानं मुक्त्वाऽभिषस्वजे । प्रमोदविस्मयोत्फुल्लः, पुरे प्रावेशयञ्च तम् ।।१५।।
२९५ उपदेश सप्तति