SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ "उपदेशः-१४" दानादिधर्मस्य विशेषपोषं, धत्ते ततः पौषधमाहुरार्याः । तं केऽपि धन्याः प्रतिपालयन्ति, यथा सुदत्तव्यवहारिधुर्यः ।।१।। सामाइयपोसहेसु-ट्ठियस्स जीवस्स जाइ जो कालो । सो सफलो बोधव्वो, सेसो संसारफलहेऊ ।।२।। अभूत्सूर्ययशा राजा, पुरे कुसुमपूर्वके । मित्रानन्दस्तस्य मन्त्री, जिनधर्माऽधिवासितः ।।१।। सभायामन्यदा जातो, विवादो नृपमन्त्रिणोः । प्रमाणं व्यवसायोऽत्र, किं पुण्यरित्यवग् नृपः ।।२।। व्यवसायवतः सर्वं, फलदायि प्रजायते । नहि सप्तमुखे क्वाऽपि, निपतन्ति फलादयः ।।३।। मन्त्री तु प्राह पुण्यानि, प्रमाणं किमुपक्रमैः । अन्धक्रियावदफलै-र्यतः शास्त्रेऽपि पठ्यते ।।४।। नैवाकृतिः फलति नैव कुलं न शीलं, विद्यापि नैव च यत्नकृताऽपि सेवा । भाग्यानि पूर्वतपसा किल संचितानि, काले फलन्ति पुरुषस्य यथैव वृक्षाः ।।१।। नृपतिः प्राह यद्येवं, व्यापारं त्वं तदा त्यज । अधुनैव व्रज क्वाऽपि, न गन्तव्यं गृहेऽपि च ।।५।। पुण्यं प्रमाणयन्मन्त्री, मुक्तसर्वपरिच्छदः । तदैव तैरेव पदै-निर्गतो नगराबहिः ।।६।। २९४ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy