________________
सोऽप्याह स्वामिनि ! स्वीयं, रात्रौ कार्यं कृतं मया । प्रातस्त्वदीयं येनेदं, तवाऽऽयत्तं वपुर्मम ।।२१।।
ममायत्तं मनस्तेन, स्वकार्य निर्मितं मया । श्रुत्वेति तं प्रशंसन्ति, धमें दामहो ! कियद् ? ।।२२।।
जगाम पत्तनं देवी, सजनोऽपि पटू कृतः । वैद्यैः क्रमेण श्रीधर्म, राजकार्यं च स व्यधात् ।।२३।।
सङ्कटे पतितेऽप्येवं, ये न मुञ्चन्ति निश्चयम् । तेषां हस्तगतैव स्यात्, निर्वाणसुखसन्ततिः ।।२४।।
अन्यथा वा प्रतिक्रान्ति, पञ्चधा ब्रुवते बुधाः । दिवारात्रौ तथा पक्षे, चातुर्मास्यां च वत्सरे ।।२५।।
सपडिक्कमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाणं जिणाणं, कारणजाए पडिक्कमणं ।।१।।'
समणेन सावरण य, अवस्सकायव्वं हवइ जम्हा । अंतो अहो निसस्सा, तम्हा आवस्सयं नाम ।।२।।
इत्थं प्रतिक्रमणमप्यनणुप्रमाद-मुत्सृज्य भव्यनिवहाः ! क्रियतां भवद्भिः । यस्मिन्कृतेऽथ भवभारवियुक्शरीरी, भारप्रमुक्त इव भारवहोलघुः स्यात्।।२६।।
।। इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे त्रयोदश उपदेशः ।।१३।।
२९३ उपदेश सप्तति