________________
ततो द्विघटिके जाते, प्रतिक्रम्य समाधिना । सामायिकं पारयित्वा, सैन्यं सर्वमचालयत् ।।१२।।
हस्तिस्थेनापि यत्नेन, प्रतिक्रान्तिस्तदा कृता । तत्सैन्यमिलनायैवा-ऽन्यथा तत् शिथिलीभवेत् ।।१३।।
प्रतिक्रमणवेलायाः, व्यतिपातोऽपि सम्भवी । एषोऽपि हेतुः सर्वं हि, कार्य काले कृतं शुभम् ।।१४।।
अथ युद्धं महज्जातं सैन्ययोरुभयोरपि । गजाऽश्वरथपत्त्याद्याः, यथा स्वं स्वं डुढौकिरे ।।१५।।
सजनेन तदा युद्धं, तथा चक्रे यथा क्षणात् । समस्तं यवनानीकं, काकनाशं ननाश तत् ।।१६।।
सज्जनस्य परं घाताः, दश लग्नास्तदा तनौ । उत्पाट्य नीतो देव्यग्रे, साऽप्येनं प्रत्यचीकरत् ।।१७।।
दुकूलाञ्चलवातेन, तस्य वातमवीजयत् । आह्वयञ्च महावैद्यान्, कृतास्तैश्च प्रतिक्रियाः ।।१८।।
देव्यग्रे सुभटैरुक्तं, स्वामिन्यस्य किमुच्यते । रात्रौ ‘एगिंदिया बेइन्दिआ' इत्याद्यमूचिवान् ।।१९।।
प्रातयुद्धं तथा चक्रे, यथा कोऽपि चकार न । देव्याह सज्जनं चक्रे, विरुद्धं किमिदं भवान् ? ।।२०।।
२९२ उपदेश सप्तति