________________
"उपदेशः-१२" सामायिकं स्यात्समताविहीनं, निरर्थकं भव्यजनास्तदेतत् । आराध्यतां केसरिवद्भवद्धि-यथा समस्तानि सुखानि वः स्युः ।।१।।
सामाइयं कुणंतो, समभावं सावओवि घडियदुगं । आउं सुरेसु बंधइ, इत्तियमेत्ताई पलिआई ।।१।।
बाणवइकोडीओ, लक्खागुणसढि सहसपणवीसं । नवसय पणवीसाए, सतिहा अडभाग पलिअस्स ।।२।।
सामायिकं समतया, वियुक्तं यः समाचरेत् । करोति परमान्ने स, क्षारक्षेपं विमूढधीः ।।३।।
श्रीनिवासपुरे राजा, रिपुमर्दन इत्यभूत् ।। श्रेष्ठी समरसिंहाख्य-स्तत्र धर्मेककर्मठः ।।१।।
तत्पुत्रः केसरीनामा, प्रकृत्येालुरुद्धतः । व्यसनी दुर्विनीतश्च, कुलाङ्गार इवाऽभवत् ।।२।।
अथ निष्काशितो गेहा-त्स पित्रा सर्वसाक्षिकम् । ततो निरङ्कुशश्चक्रे, स चौर्यं सर्वसद्मसु ।।३।।
इत्थं पुरान्तस्तन्वाने, स्तैन्ये तस्मिन्नृपोऽन्यदा । सभानिविष्टः प्रोवाच, कोऽयं ? कस्य सुतोऽथवा ? ।।४।।
तदा तत्र निविष्टस्त-त्तातः प्राह कृताञ्जलिः । दुष्पुत्रोऽयं मम स्वामिन् !, मया निर्वासितो गृहात् ।।५।।
२८६ उपदेश सप्तति