________________
किं कर्त्तव्यतया मूढे, राजवर्गे तदाऽखिले । बभूव दिव्या वागेवं, भो भो लोकाः ! निशम्यताम् ।।२४।।
राज्ञोऽस्य निश्चयैकाग्र-श्रीपुञ्जस्य द्विजन्मनः । . हस्तस्पर्शनमात्रेण, व्याधिर्यास्यति नान्यथा ।।२५।।
कः पुञ्ज इति सर्वेष-त्कर्णेष्वेकस्तदाऽवदत् । अस्ति निःस्वद्विजसुतः, पुञ्ज एको दृढव्रतः ।।२६।।
कुटुम्बकलहाजाते, लङ्घनत्रितयेऽपि यः । अक्षुब्धः सुव्रते पुञ्जः, स एव खलु सम्भवी ।।२७।।
इति सम्भावनामात्रे-ऽप्यमात्रबहुमानतः । . आहूतः सचिवाद्यैः स, श्रीपुञ्जः सद्य आगतः ।।२८।।
सोऽब्रवीछेद् दृढो मेऽस्ति, रात्रिभोजननिश्चयः । तदेदानीमेव राज्ञः शाम्यतादुदरव्यथा ।।२९।। इत्युक्तिपूर्वमीशं, स्वहस्तस्पर्शमात्रतः । क्षणादेव पटूचक्रे सर्वपूर्जनसाक्षिकम् ।।३०।। .. श्रीपुञ्जाय तदा भूप-स्तुष्टः पञ्चशतीमितान् । ददौ ग्रामान्-सोऽपि चक्रे, नृपादीन् जैनधार्मिकान् ।।३१।।
इत्थं श्रीपुञ्जविप्रः क्षितिपमुखजनार्यस्तदीयोऽनुजश्चाऽभूद्यो मिथ्यात्विजीवो जिनमतनिरतौ तौ कृताऽनेकधा । च्युत्वा काले स देवोऽप्यनुपमसुकृतैस्ते त्रयः सिद्धिमापुः, शर्यां तेन भोज्यं परिहरत बुधाश्चेजिहासा भवस्य ।।३।। ।। इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे एकादश उपदेशः ।।११।।
२८५ उपदेश सप्तति