________________
मध्ये त्याज्यघटीयुग्मं, भुङ्क्तेऽस्ते जातुचिद्रवौ । प्रातः सायमसौ जान-त्रप्यजाननिवाऽभवत् ।।७।।
सम्यगाराधयामास, निश्चयं स्वं तु भद्रकः । कुटुम्बमपि सञ्जातं, श्राद्धस्य शिथिलं पुनः ।।८।।
राजकार्यादिवैयग्र्या-दन्यदोत्सूरसम्भवे । भद्रकः श्रावकश्चाऽपि, चिरेण गृहमागतौ ।।९।।
उत्सूरभवनाद्भुक्तिं, भद्रको नैव निर्ममे । आस्तिकस्तु तदाऽभुत, कुटुम्बप्रेरणावशात् ।।१०।।
तदा तस्योपासकस्य, भुञ्जानस्याऽशनादिकम् । , मस्तकात्पतिता यूकाऽऽहारान्तस्तं च भुक्तवान् ।।११।। .
ततो जलोदरव्याधि-बाधितोऽत्यन्तमाकुलः । . विराध्य नियमं चैष, मृत्वा मार्जारकोऽभवत् ।।१२।।
कदर्थ्यमानो दुष्टेन, शुना तत्र भवेऽपि सः । विपद्य नरके प्राच्ये, प्राप्तो दुःखानि सोढवान् ।।१३।।
रात्रिभुक्तिप्रसक्तः स, मिथ्यात्व्यपि कदाचन । सविषाहारभुक्त्याभूत्, त्रुटदन्त्रः शनैः शनैः ।।१४।।
चिरान्मृतः पीड्यमान-स्तया निविडपीडया । मार्जारो नारकश्चाद्ये, नरकेऽजनि मित्रवत् ।।१५।।
२८३ उपदेश सप्तति