________________
अकरोदकरं लोकं, धर्म्मकर्म्मणि कर्म्मठम् ।
सर्वत्राऽपि जिनाज्ञाऽभूत्, यथा राजा तथा प्रजाः ।।२७।।
स पञ्चशतसंख्यानि, जिनचैत्यान्यचीकरत् । स्वर्णरत्नमयीस्तेषु, प्रतिमाश्च न्यवीविशत् ।। २८ ।।
अखण्डितस्वनियमो, जिनाज्ञामप्यखण्डयन् । अखण्डं स चिरं राज्यं, चकार जिननिश्रया ।। २९ ।।
इति नियम्य परिग्रहसागरं, स नृपतिः पदमव्ययमाप्तवान् । कुरुत तेन परिग्रहनिग्रह, सपदि यूयमपीच्छथ चेत् सुखम् ||३०||
।। इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे दशम उपदेशः । । १० । ।
२८९ उपदेश सप्तति