________________
सोढा स एकः कष्टानां, ते द्वे तु क्षुधिते भृशम् । शिष्यैर्नोद्धाट्यते द्वारं, दुःखपारः कथं भवेत् ? ।।२७।।
बहिः स्थितास्तु ते शिष्याः, विमर्शमिति कुर्वते । उपसर्ग करोत्येष, नूनं कोऽपि गुरोः सुरः ।।२८।।
चिरादुद्घाटिते द्वारे, स ताभ्यां सह निर्गतः । निर्यद्रक्तप्रवाहेण, रक्ताद्रिरिव मूर्तिमान् ।।२९।।
भगवन् ! किमिदं जातं, पूज्यानां भवतामपि । इति पृष्टे गुरुः स्माह, तद्वृत्तं तथ्यमेव सः ।।३०।।
सोपहासं सकारुण्यं, सदैन्यं शैक्षका जगुः । निर्मिता यजमानेन, भक्तिर्गुर्वनुरूपिणी ।।३१।।
एतस्योचितमेवेदं, स्वाचारं परिमुञ्चतः । भस्मनैव हि रुद्रस्य, पूजा स्यान्न तु चन्दनैः ।।३२।। काले गुरुः पटूभूतो, यजमानेन बोधितः । भगवनीदृशं कर्म, न तापसजनोचितम् ।।३३।।
शिक्षयित्वेति तं प्राप्तो, यजमानो निजं गृहम् । तापसोऽपि चिरं दीक्षां, तापसी पर्यपालयत् ।।३४।।
यदि शिवनगरयियासा, भवे जिहासा च वो भवेद् भव्याः ।। . तदमी विषमा विषयाः, किम्पाकफलोपमास्त्याज्या: ।।३५।।
॥ इति श्रीउपदेशसप्ततिकायां पञ्चमेऽधिकारे नवम उपदेशः ।।९।।
~~~~~~~~~~~~~~~~~~~~~~ ~~ २७७ उपदेश सप्तति