SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ __ "उपदेश:-९" विषयामिषलम्पटो जनः, सहतेऽत्रैव भवे विडम्बनाम् । यजमानविगोपितो यथा, लघुतां प्राप स तापसब्रुवः ।।१।। पुरा श्रीचम्पकपुरे, श्रेष्ठी श्रेष्ठगुणोझयः । चकोरनामा सञ्जात-चकोर इव कोविदः ।।१।। धर्मकृत्यरतोऽप्येष, तापसेषु परं सदा । कुरुतेऽत्यादरं धर्म-परीक्षा खलु दुर्लभा ।।२।। अन्यदा पर्वणि क्वाऽपि, तेनैकः कोऽपि तापसः । निमन्त्रितो गृहे भुक्त्यै, भोजयामास तं च सः ।।३।। उदरंभरिणा तेन, भुञ्जानेन दुरात्मना । गौरवर्णं लम्बकर्णं, दृष्टं श्रेष्ठिसुताद्वयम् ।।४।। आपादमस्तकं रम्यं, तद्रूपं तस्य पश्यतः । मार उजागरो जातो, निर्विवेका हि तादृशाः ।।५।। यजमानपुरोऽवादीद्भोजनानन्तरं जटी। प्रच्छन्नं निजशिष्येभ्यः, परित्यज्य त्रपामपि ।।६।। कस्येदं तनयाद्वन्द्वं ?, स प्राह भगवन्मम । तदिदं दीयतां मां, गुरुभक्तो भवान् यतः ।।७।। आत्मनो वल्लभं यत्त-निर्विचारेण चेतसा । गुरुभ्यो देयमेकान्त-मक्षयं हितमिच्छुना ।।८।। २७४ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy