________________
तदुक्तिप्रतिपत्तिं ते ऽप्यूरीकृत्य गता गृहम् । तथैव साधयामास, सूरोऽपि मरणं तदा ।। २७ ।।
तज्जीवस्तनयत्वेन, तस्याः कुक्षाववांतरत् । व्यभिचारि निदानं नो, कृतकष्टानुमानतः ।।२८।।
काले च तनयो जातः, कृतमाणिक्यनामकः । लालितः पालितो वृद्धि, प्रापितः पाठितश्च सः ।। २९ ।।
कन्यां रूपवतीं प्रौढ - कुलजां परिणायितः । कुटुम्बभारधौरेयो, जातो द्वादशवार्षिकः ।। ३० ।।
अथ ते कृतसङ्केता- स्त्रयोऽपि व्यवहारिणः । प्राप्तास्तत्र पुरे प्राग्वद्यात्रायै निर्मितोद्यमाः । । ३१ । ।
तस्य सूत्रभृतो गेहे, तं पश्यन्ति 'कुमारकम् । वदन्ति च स एवाऽय- मित्यन्योऽन्यं हसन्ति च ।। ३२ ।।
अत्रान्तरे शिशोस्तस्य, चटितो दारुणज्वरः । आहूता बहवो वैद्याः, कृता नानाप्रतिक्रियाः ।। ३३ ।।
तथाऽपि स मृतो बालः, स्यान्निदानं किमन्यथा । कृतः समस्तैरुद्वेगो, जनन्या तु विशेषतः ।। ३४ ।।
तदा ते तामिति प्रोचुर्भद्रे ! स्वकृतकर्म्मणः ।
भवेऽत्रैव फलं प्राप्तं, साऽवदत् किं मया कृतम् ? ।। ३५ ।।
२७२ उपदेश सप्तति