________________
सत्यं सत्यमिति प्रोचु-रपरेऽपि त्रयस्ततः । सूरोऽवादीदहो ! कीदृक् तस्याः पातकपाटवम् ? ।।१८। ।
हा ! निष्कारणवैरिण्या, महोद्वेगस्तया कियान् । कृतो ममेत्युरस्तापा- द्विलापानकरोद्वहून् ।। १९ ।।
कथं श्राद्धविधिः कार्य- स्त्यागयागादयः कथम् ? । अन्यान्यपि हि पुण्यानि, क्रियन्ते निर्द्धनैः कथम् ? ।।२०।।
दध्यौ च स्वगतं यद्ये-तया दुःखं ममेदृशम् । कृतं तदाऽहमप्यस्याः, करिष्ये दुःखमुल्बणम् ।।२१।।
विमृश्येत्याह सूरस्तान् भो भोः शृणुत बान्धवाः !' । अहमत्र मरिष्यामि, विमोच्य करपत्रकम् ।। २२ ।।
निदानेन भविष्यामि, सुतस्तस्याः सुरूपभृत् 1 भवे तत्राऽपि मर्त्ताऽस्मि, भूत्वा द्वादशवार्षिकः ।। २३ । ]
एवं कृते च तस्याः स्यात्, महद्दुःखं हि नाऽन्यथा । कृते प्रतिकृतिं कुर्या - दिति शास्त्रेऽपि पठ्यते ।।२४।।
परं तत्समये तत्र, युष्माभिरपि बान्धवाः ! |
आगत्याऽयं व्यतिकरः, श्राव्यस्तस्याः सविस्तरम् ।।२५।।
लात्वा तत्पार्श्वतो रत्नं, व्ययनीयमिहैत्य च । एतदर्थे च युष्माभिर्दीयतां दक्षिणः करः ।। २६ ।।
२७९ उपदेश सप्तति