________________
वत्स ! त्वं धन्यमूर्द्धन्यो, यस्य साहसमीदृशम् । परीक्षेयं मया चक्रे, लभ्यं मेऽस्ति न किञ्चन ।। २४ ।।
यतः कण्ठीरवापत्यं भवेत्कण्ठीरवोपमम् । न सूर्यात्तामसी वृष्टि-र्न चाङ्गारमयी विधोः ।। २५ ।।
इति तं श्लाघयित्वास, जगत्सिंहपदे परे । निवेश्य तद्वत्तत्रापि, व्यवहारमतन्तनीत् ।।२६।।
एवं मदनसिंहोऽपि वल्लभोऽभून्नृपादिषु । तत्र तत्र प्रतिष्ठा स्यात्, यत्र यत्र गुणादरः ।।२७।।
ग्लानीभूतं सुरत्राणं, मेदपाटागतोऽन्यदा । पोलाऽभिधो महावैद्यो विदधे विगताऽऽमयम् ।।२८ ।।
ततः प्रभृति राजादे - रपि मान्यो बभूव सः । रसाङ्गवेदी शास्त्रज्ञो, विविधौषधयोगवित् । । २९ ।।
स नालिकेरनवर्क, भनक्ति युगपद्वली । पूगीफलं च तस्यान्तः, स्वाङ्गुष्ठेन क्षिपत्यसौ ।। ३० ।।
जानुकक्षाकफोणीना-मंसयोश्च द्विकं प्रति । निवेश्य चिबुके चैकं, चूर्णयत्येवमेव तत् ।। ३१ ।।
महाजनेन सार्द्धं सो ऽन्यदा शालामुपागतः । लिङ्गिना क्रियमाणे च, व्याख्याने समुपाविशत् ।। ३२ ।।
२६७ उपदेश सप्तति