________________
यत्तत्प्रलपने दोषो, न देयो मम कश्चन । इति प्रच्छन्नमाख्याय, सर्वाऽध्यक्षं ततोऽब्रवीत् ।।१६।।
जगत्सिंहान्तिके राजन् !, मया लभ्यमभूत्पुरा । तत्सुतो नाऽर्पयत्येष, क्रियते किं ? त्वमादिश ।।१७।।
नृपाऽऽहूतः सभामेत्य, स्वस्वरूपं सुतो जगौ । सोऽप्यात्मीयं ततो जातो, विवाद उभयोरपि ।।१८।।
प्राह वस्तुपतिर्लभ्यं, न चेत्त्वत्पितुरन्तिके । सर्वेषां पश्यतां तर्हि, त्वं तातशपथं कुरु ।।१९।।
सधैर्यमवदत् पुत्रो, न तातशपथं सृजे । । गृह्णातु लभ्यमात्मीयं सर्वस्वमथवा भवान् ।।२०।।
विक्रीणेऽहं कथं द्वात्रिं-शत्सहस्त्रैः स्वबीजिनम् ? । कोटीभिरुपकाराणा-मपि यो दुष्प्रतिक्रियः ।।२१।।
केचिन्मूर्खाः निजपितु-र्गलस्य रुधिरस्य वा। कुर्वन्ति शपथांस्तेषां गतिं जानाति केवली ।।२२।।
यतः -
"सशेणवि अलीएणवि चेइअसम्मं करेइ जो मूढो । हणिऊण बोहिबीयं, अणंतसंसारिओ होइ ।।१।।" इत्थं तदुक्तिमाकर्ण्य, सर्वे सभ्याः सविस्मयाः । तत्प्रशंसां वितन्वन्ति, सोऽपि वस्तुपतिर्जगौ ।।२३।।
२६६ उपदेश सप्तति