________________
तदुःखदुःखितास्तेऽपि, तत्स्वरूपे निवेदिते । .. सर्वे स्वस्वगृहं प्राप्ताश्चिन्तयन्तो भवस्थितिम् ।।२४।।
जामातुस्तनयायाश्च, तादृक् तत्कर्मवैशसम् । विज्ञाय रतिसारोऽभूद्, धर्मसारस्ततः परं ।।२५।। .
अन्यदा सुयशास्तत्र, चतुर्ज्ञानी समागतः । श्रेष्ठी तद्देशनां श्रुत्वा-ऽपृच्छत्याच्यभवं तयोः ।।२६।।
ज्ञानी प्राह पुरा शालि-ग्रामेऽभूत्काऽपि दुर्गता । महेला बालकसुता, कुटुम्बाद्यैः परिच्युता ।।२७।।
सा महेभ्यगृहे नीच-काण्युदरपूर्तये । करोति वत्सरूपाणि, चारयत्यङ्गजः पुनः ।।२८।।,
अन्यदा वत्सरूपाणि, चारयित्वा सुतो गृहे । प्राप्तस्तजननी क्वाऽपि, कार्ये सक्ता तु नागता ।।२९।।
बभूव महती वेला, स बालः क्षुधितो भृशम् । गृहप्राप्तां च तामूचे, साधिक्षेपमिदं वचः ।।३०।।
शूलायां त्वमरे रण्डे !, क्षिप्ताऽभूः किमियशिरम् ? । बुभुक्षापीडितं मां किं, न जानासि ? विचेतने ! ।।३१।।
तथैव साऽपि प्रत्यूचे, छिनौ किं ते कराविमौ ? । तदत्र सिक्कके भोज्यं, त्वदर्थ सजितं मया ।।३२।।
२५७ उपदेश सप्तति