________________
देवराजोऽपि साम्राज्यं, स्वराज्यमिव पालयन्, अन्यदा पुट्टिलाचार्यां-स्तत्र प्राप्तानवन्दत ।।९।।
पप्रच्छ च प्रभो ! कस्माद्, व्याधिर्मे सप्तवार्षिकः । कथं चास्याः करस्पर्श-मात्रादप्येष निष्ठितः ? ।।१०।।
प्राहुः श्रीगुरवो राजन् !, प्राग्भवे श्रेष्ठिपुङ्गवः । देवदत्त इति ख्यात-श्चत्वारस्तस्य सूनवः ।।११।।
गोपा-देपा-सिवा-शूरा-संज्ञा मिथ्यात्ववासिताः । चतुर्थेन त्वया तेषु, कपटश्राद्धताजुषा ।।१२।।
परिणीता श्राद्धसुता, या नाम्ना मृगसुन्दरी । . आबाल्यादपि तस्यास्तु, विद्यतेऽयमभिग्रहः ।।१३।।
पूजयित्वा जिनं देवं, संयतान् प्रतिलाभ्य च । भोक्तव्यमेकशो रात्रौ, न भोज्यं च कदाचन ।।१४।।
सम्भूय तेऽन्यदा प्राहु-स्तां नवोढामिति क्रुधाः । अरे ! पाखण्डमुत्सृज्य, गृहाचारं समाचर ।।१५।।
नार्चनीयो जिनो दानं, न देयं व्रतिना त्वया । रजन्यां भोजनं कार्य-मन्यथाऽस्मद्गृहाद् व्रज ।।१६।।
सा त्विदं जात्वनिच्छन्ती, मनसाऽपि महार्हती । जातोपवासत्रितया-ऽप्राक्षीच्छ्रीमद्गुरूनिति ।।१७।।
२५० उपदेश सप्तति