________________
"उपदेशः-४" धर्मे प्रधाना यतना मनीषिभिः, प्ररूपिता सा गृहिणस्तु दुर्लभा । तथापितस्यांयतमानआस्तिकः, स्यात्सौख्यभाक्सामृगसुन्दरीयथा।।१।।
श्रीषेणः श्रीपुरे राजा, राजेव जनवत्सलः । तत्पुत्रो देवराजोऽभूद्, देवराज इवापरः ।।१।।
जन्मप्रभृति तस्याङ्गे, दुष्टः कुष्ठामयोऽभवत् । कृताः प्रतिक्रिया नैकाः, अफला: किन्तु जज्ञिरे ।।२।।
जातानि सप्तवर्षाणि, राज्ञाऽन्येद्युः पुरान्तरे । पटहोद्धोषणापूर्व-मित्यश्रावि जनोऽखिलः ।।३।। .
व्याधिं यो मम पुत्रस्य, पण्डितोऽपण्डितोऽपि वा । अपनेष्यत्यसो भावी, राज्यार्द्धस्थितिभाजनम् ।।४।। लक्ष्मीवती यशोदत्त-व्यवहारिसुताऽभवत् । तत्र धर्मरता शीले, विशिष्य तु कृतादरा ।।५।। निजशीलपरीक्षाय, निवार्य पटहस्तया । स्वहस्तस्पर्शमात्रेण, स कुमारः पटूकृतः ।।६।। कुमारेण समं तस्या-स्ततः पाणिग्रहोत्सवः । समजायत हस्त्यश्व-रथदानादिपूर्वकम् ।।७।।
तं कुमारं न्यस्य राज्ये-ऽवसरे स महीपतिः । स्वीचकार परिव्रज्यां, कालज्ञा उत्तमा यतः ।।८।।
२४९ उपदेश सप्तति