SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ कृषिः कृषीबलेः कर्तु-मारेभे मुदिताशयैः ।। क्षेत्रेषु बीजान्युप्तानि, सुपात्रेष्विव धार्मिकैः ।।१७।। अन्यवर्षीयनिष्पत्ते-निष्पत्तिर्द्विगुणाऽभवत् । तस्मिन्वर्षे नृपोऽप्यासी-त्सपौरो बहुलर्द्धिकः ।।१८।। निवृत्ते कार्तिक मासे, हेमन्तसमयेऽन्यदा। . आययुः केचिदाचार्याः, केवलज्ञानशालिनः ।।१९।। . सदैवज्ञः सपौरस्ता-न्वन्दितुं नृपतिर्गतः । नैमित्तिकोक्त्यलीकत्व-हेतुं पप्रच्छ तं च सः ।।२०।। अवोचन्सूरयो राजन् !, अत्रैव तव पत्तने । धनदत्त इति श्रेष्ठी, तस्य भार्या धनेश्वरी ।।२१।। तयोरन्येधुरुत्पन्नः, सुतः सर्वसुखावहः । यस्य प्रभावतो वृष्टो, मेघो युष्मादृशां मुदे ।।२२।। । अयं हि प्राग्भवे रङ्को, भिक्षावृत्तिरभूत् क्वचित् । दृष्ट्वाऽन्यदा मुनि कञ्चि-द्ववन्दे हर्षपूरितः ।।२३।। गृहाण नियमान्कांश्चि-दिति तं संयतो जगौ । अन्यथाऽपि तवेदानी, सम्पत्तिर्नास्ति तादृशी ।।२४।। ततस्तदन्तिके देवनत्यादीनियमानसौ । प्रतिपेदे क्रमाद्भाग्यः, सोऽपि जातो महर्द्धिकः ।।२५।। २३९ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy