________________
तत्प्रतिज्ञां दृढामेव, निशम्य माभुजाऽपि सः । अस्थापि स्वपुरे क्वापि, गन्तुं नैव ददे तथा ।।८।।
सादरात् सर्वलोकै-चक्रे धान्यस्य सङ्ग्रहः । स्वकुटुम्बानुमानेन, गत्वा देशान्तरेष्वपि ।।९।।
स्वस्ववित्तान्यनादृत्य, धान्यान्येव तदा जनैः । मील्यन्ते स्म यतः प्राणाः, नृणामन्नेषु निष्ठिताः ।।१०।।
अथोष्णकालेऽतिक्रान्ते, प्रवृत्तेऽपि तपात्यये । उत्पश्ये सर्व्वलोकेऽपि, वारिदोऽभूदवारिदः ।।११।।
भृशं विव्यथिरे लोकाः, भाविदुर्भिक्षशङ्कया। . . धर्मकर्मव्यवस्था हि, स्यात्सुभिक्षाऽनुयायिनी ।।१२।।
प्राप्ते तु श्रावणे मासे, द्वितीयादिवसेऽसिते । . . उत्तरस्यामभूदभ्रं लोकाः सम्मुखमैयरुः ।।१३।। ।
वाद्यानि वादयामासु-गीतनृत्यादि तेनिरे । आकृष्ट इव तद्भाग्यै-र्ववर्ष जलस्तदा ।।१४।। .
आख्यद्भूपो निमित्तचं, त्वद्वचोऽद्य वृथाऽभवत् । तत्ते करोमि जिह्वाया-श्छेदं यत्तत्प्रलापिनः ।।१५।।
देव ! किञ्चित्प्रतीक्षस्व, यावन्मिलति कोऽपि मे । ज्ञानी मुनिस्तदने य-द्भवेच्छात्रार्थनिर्णयः ।।१६।।
२३८ उपदेश सप्तति