SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ।। गृहस्थधर्माधिकारः पञ्चमः ।। "उपदेश :- १" अथ गृहस्थधर्माऽधिकारः पञ्चमः प्रारभ्यते श्रीधर्म एव निरिक्षय एष सौख्य- श्रीणां हितः स्वपरयोश्च भवान्तरेऽपि । श्रीधर्मराजचरितं विनिशम्य सम्यक्, कस्तत्र वा शिथिलमादरमातनोति । । १ । । अस्त्यत्र भरतक्षेत्रे, नगरी सर्वमङ्गला । तत्र वित्रासिताराति- भूपतिर्भद्रशेखरः । । १ । । सभामध्यास्त स क्ष्मापः, परिवारयुतोऽन्यदा । तदा नैमित्तिकः कोऽपि, प्राप्तस्तत्र त्रिकालवित् ।।२।। यथोचितासने राज- दापिते स उपाविशत् । उदस्य हस्तं सर्वेभ्यः, आशीर्वादमुवाच च ।। ३ ।। नृपोऽप्राक्षीनिमित्तज्ञ !, भविष्यद्वद कीदृशम् ? । स्वरूपं भावि सोऽप्याह, माऽधुना पृच्छ्यतां प्रभो ! ।।४।। विशेषतो नृपोऽपृच्छ-दुत्पातः कोऽपि दैवतः ? । किं भावी ? सोऽप्यभाषिष्ट, दुर्भिक्षं द्वादशाब्दिकम् ॥ ५ ॥ अकाण्डाऽशनिसम्पात-सन्निभं तद्वचो नृपः । श्रुत्वा सदुःख इत्याख्यत्, रे ! विमृश्य वचो वद । ६ ॥ समक्षं सर्वसभ्यानां, निमित्तज्ञोऽब्रवीत्पुनः । मद्भाषितं वृथा स्याचे-च्छेद्या जिह्वैव मे तदा ।। ७ ।। २३७ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy