________________
दूरेऽस्तु परमानं त-द्वार्त्तापि न तया कृता ।
किं तत्राऽभाग्यमस्माक - मन्यद्वा कारणान्तरम् ? ।। २४ ।।
श्रेष्ठी बाण राजेन्द्र !, तस्याः शुष्कतृणादिकम् । दीयते दुह्यते वार- द्वितयं गृह्यते पयः ।। २५ ।।
तत्पयस्तन्दुलैः सार्द्धं, पच्यते जायते ततः । परमान्नमयं तस्य, विधिः किमपरैर्व्ययैः ? ।। २६ ।।
ज्ञातोपायस्ततो भूपः, परमान्नमपीपचत् । तेनाऽभूत् सुखितोऽवादीत्, परेभ्योऽपि विधिं च तम् ।।२७।१
धर्मोऽपि विधिनाराद्धः, एवं सौख्यप्रदो भवेत् । विना विधिं कृतोऽप्येष स्यादल्पफलदो नृणाम् ।।२८
यतः
9
आराधितः पूर्वभवेषु धर्म्मो, यैर्निर्विवेकैश्च विवेकिभिश्च । यथाक्रमते विहितेऽपि, श्रीपत्तयः श्रीपतयश्च तेन ।।१।।
एवं भो भविकाः !, निपीय विधिना धर्मामृतं तात्त्विकं, भुक्त्वा मानवदेवसेवितपदाः संसारसौख्यावलीः । निष्प्रत्यूहतया प्रयास्यथ शिवं यूयं कुदेवादिकं, मा तत्र क्षिपतोल्बणं तु गरलं चेद्वो विवेको हृदि ।। २९ ।।
।। इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे द्वादश उपदेशः ।। १२ ।। इतिश्रीपरमगुरुतपागच्छनायक श्रीसोमसुन्दरसूरिक्रमकमलमरालमहोपाध्याय
श्रीचारित्ररत्नगणिविनेयपरमाणुपण्डितसोमधर्म्मगणिविरचितायां श्रीउपदेशसप्ततौ सामान्यधर्माधिकारश्चतुर्थः ।। "
२३६ उपदेश सप्तति