SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ दूरेऽस्तु परमानं त-द्वार्त्तापि न तया कृता । किं तत्राऽभाग्यमस्माक - मन्यद्वा कारणान्तरम् ? ।। २४ ।। श्रेष्ठी बाण राजेन्द्र !, तस्याः शुष्कतृणादिकम् । दीयते दुह्यते वार- द्वितयं गृह्यते पयः ।। २५ ।। तत्पयस्तन्दुलैः सार्द्धं, पच्यते जायते ततः । परमान्नमयं तस्य, विधिः किमपरैर्व्ययैः ? ।। २६ ।। ज्ञातोपायस्ततो भूपः, परमान्नमपीपचत् । तेनाऽभूत् सुखितोऽवादीत्, परेभ्योऽपि विधिं च तम् ।।२७।१ धर्मोऽपि विधिनाराद्धः, एवं सौख्यप्रदो भवेत् । विना विधिं कृतोऽप्येष स्यादल्पफलदो नृणाम् ।।२८ यतः 9 आराधितः पूर्वभवेषु धर्म्मो, यैर्निर्विवेकैश्च विवेकिभिश्च । यथाक्रमते विहितेऽपि, श्रीपत्तयः श्रीपतयश्च तेन ।।१।। एवं भो भविकाः !, निपीय विधिना धर्मामृतं तात्त्विकं, भुक्त्वा मानवदेवसेवितपदाः संसारसौख्यावलीः । निष्प्रत्यूहतया प्रयास्यथ शिवं यूयं कुदेवादिकं, मा तत्र क्षिपतोल्बणं तु गरलं चेद्वो विवेको हृदि ।। २९ ।। ।। इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे द्वादश उपदेशः ।। १२ ।। इतिश्रीपरमगुरुतपागच्छनायक श्रीसोमसुन्दरसूरिक्रमकमलमरालमहोपाध्याय श्रीचारित्ररत्नगणिविनेयपरमाणुपण्डितसोमधर्म्मगणिविरचितायां श्रीउपदेशसप्ततौ सामान्यधर्माधिकारश्चतुर्थः ।। " २३६ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy