________________
अथ कामगवी तेन, स्थापिता वर्यमन्दिरे । आराधनविधिस्तस्या, एवमेवं च निर्ममे ।।१५।।
क्रियन्ते विविधाः पूजाः, भोगयोगाश नैकशः । . वीज्यतेश्चामरश्रेणि-प्रिंयते छत्रसन्ततिः ।।१६।।
दीनाराणां पञ्चशत्या-स्तस्या भोगं नराधिपः । करोति कारयत्यन्यै-गीतनृत्यादिकोत्सवान् ।।१७।।।
मातर्मे परमानं च, देहि देहीति भाषते । न वेत्ति तदुपायं तु, निविडाऽज्ञानपीडितः ।।१८।।
चारिपानीयशुश्रूषा-विरहेण कियद्दिनैः ।. . . सा वराकी मृता राजा, निनिन्द स्वं तु पापिनम् ।।१९।।
अहो ! अभाग्यमस्माक-महो ! पापभरो महान् । दैवेनोद्दालितं रत्नं, हस्तप्राप्तमपि क्षणात् ।।२०।। .
स एवाऽन्येधुरायातः, श्रेष्ठी तत्र तथैव च । . नृपाय प्राभृतं चक्रे, तदा भूपस्तमभ्यधात् ।।२१।।
अर्पिता कामधेनुर्या, त्वयाऽस्माकं हितेच्छया । परमानं तया दत्तं, स्वल्पमप्येकदाऽपि न ।।२२।।
भक्तिप्रकारा नैकेऽपि, कृतास्तस्यास्तदादिभिः । परं प्रत्युत्तरं किञ्चि-त्तया दत्तं न जातुचित् ।।२३।।
२३५ उपदेश सप्तति