________________
"उपदेशः-१२" आराध्यमानो विधिनैव दत्ते, धर्मः फलं नैव हठे कृतेऽपि । न तं विना कामदुधापि दुग्धं, कृतव्ययस्यापि ददौ नृपस्य ।।१।।
यस्तामलिः षष्टिसहस्रवर्षा-वधि स्वरुच्या विदधे तपांसि । अल्पं फलं सोऽपि विना विवेका-ल्लेभे ततः किं बहुकष्टयोगै: ? ॥२॥
कूरगडुमुनिनित्य-भुक्तिसक्तोऽपि केवलम् । लेभे विवेकसाहाय्या-च्छ्रमणैरपि तैर्न तु ।।३।।
अथ प्रागुक्तदृष्टान्तो, भाव्यते पृथिवीपुरे ।.. बभूव धनदः श्रेष्ठी, स प्रायो गोरसप्रियः ।।१।।
दधि दुग्धं परान्नं च, भुङ्क्ते भोजयते तथा । मित्राणि तेन सञ्जातं, गोधनं तस्य बह्वपि ।।२।।
काचिद्घोणदुधा काचि-द्वञ्जला काऽपि सुव्रता । एवं गवांशतान्येष, सञ्जग्राह धनैर्धनैः ।।३।।
अथैकदा यानपात्रे, सौरभेयीः स पञ्चषाः । सारा आरोग्य वित्तार्थी, रत्नद्वीपे ययौ क्रमात् ।।४।।
नियन्त्र्य यानपात्राणि, महोदधितटे ततः । सुस्थाने स्थापयामास, स्वसार्थं स वणिग्वरः ।।५।।
२३३ उपदेश सप्तति