________________
तत्साधयिष्ये मरणं चिताऽनले, प्रविश्य मानोज्झितजीवितेन किम् ? । इत्यादि तप्तत्रपुतुल्यतद्वचः, श्रुत्वा नरेन्द्रः पुनरप्युवाच ताम् ।।३।।
विद्याभृतस्त्वं तनयाऽसि नाऽधमे !, करालचण्डालकुलोद्भवा पुनः । कस्तूरिकाया भ्रमतो मयाऽञ्जनं, धत्तूरको वा जगृहे मरुत्तरोः ।।३।।
गृहाण कोशं वसुधां गृहाण वा-ऽन्यद्वा यदिष्टं तव तत्करोम्यहम् । पर्वव्रतं त्याजय मा मम प्रिये !, यल्लोपतो दुर्गतिरेव निश्चितम् ।।३३।। ,
भूयोऽपि सा प्राह न यस्य विद्यते, वचःप्रतिष्ठा पुरुषधमो हि सः ।। तदीयदानेन महीयसाप्यलं, भूयोऽपि भूपं कपटाङ्गना जगौ ।।३४।।
चेत् पर्वभङ्गो न करिष्यते त्वया, तत्पात्यतां मन्दिरमादिमं प्रभोः । शक्रावताराभिधमेतदुनतं, श्रुत्वेति वज्राहतवनृपोऽभवत् ।।३५।।
मुमूर्छ भूमौ सहसा पपात च, क्षणेन चैतन्यमवाप्य सोऽवदत् ।। आ: पापिनि ! म्लेच्छकुले सुनिश्चितं, जातासि यत्ते वंचनावलीदृशी ।।३६॥
यातां युवां वे अपि तन्ममान्तिकात्ससान्त्वनं सा पुनरप्युवाच् तम् । मद्वाक्यमप्येकमकारि न त्वया, पुनः पुनः किं तव नाथ ! जल्प्यते ।।३७।।
शिरः स्वपुत्रस्य समर्पयाऽथवे-त्युक्ते विना मां न सुतो ममैव तत् । गृहाण जल्पन्निति कण्ठमात्मन-श्छिनत्ति यावत्तरवारिणा नृपः ।।३८।।
बभूवतुस्तावदुभे अपि स्फुटे, तस्य प्रशंसामिति चक्रतुः पुनः । । जय क्षमाधीश्वर ! चक्रिनन्दन !, प्रशान्तसर्वेन्द्रियसङ्गवर्जित ! ।।३९।।
२३१ उपदेश सप्तति