________________
त्रयोदशीसप्तमिकाऽऽदिवासरे, मदाज्ञयाऽसौ पटहः प्रवाद्यते । जानन्ति पर्वेतरयोविवेचनं, प्रमादपूर्णाः कथमन्यथा जनाः ? ।।२३।।..
ममाज्ञया पर्वदिनेऽत्र पौषधं, तुर्यव्रतं ज्ञानतपःक्रियादि च । कुर्वन्ति लोकाः प्रतिषेधयन्ति च, स्नानं शिरोगुम्फनखण्डनानि च ।।२४॥
उवाच रम्भाऽपि नरेन्द्र ! यौवनं, सद्भोगयोगः सुखसम्पदादिकम् । .. हार्यन्त एतानि करस्थितान्यपि, त्वया कथं प्रेत्यफलार्थिना मुधा ? ।।२५।।
जगाद भूपोऽपि जिनेन्द्रभाषितं, व्यधायि तातेन महाफलं च यत् । . पर्वव्रतं तत्कथमेष सुन्दरि !, त्यजाम्यहं स्तोकसुखस्य हेतवे ।।२६।।..
येषां न शीलं न तपो न च क्रिया, विवेकवैराग्यमुखा गुणाश्च न । तेषां पशूनामिव जन्म निष्फलं, भवेदिहामुत्र तु घोरदुर्गतिः ।।२७।।
अथोर्वशी प्राह जिनेन्द्रसाक्षिक, स्वजिह्वया यत्प्रतिपत्रमित्यभूत् । नोल्लङ्घनीयं युवयोर्मया वच-स्तद्विस्मृतं किं भवताऽपि भूपते ! ।।२८।।
यदीयवाक्ये स्थिरता न विद्यते, धिक् सोऽपि मूर्खः पुरुषेषु गण्यते । स्वाधीनभर्तुः कृतये कुलादिकं, त्यक्तं कृतस्त्वं च सुखेप्सया पतिः ।।२९।।
तन्नोभयभ्रष्टतयाऽस्ति मे सुखं, कस्याग्रतो वा परिदेव्यते विभो ! । .. इदं सकृत्ते विहितं परीक्षणं, प्रयातु ते वाग् मम किं प्रयास्यति ? ।।३०।।
२३० उपदेश सप्तति