________________
लक्षहोमकृतो यागो, रक्षा तस्येयमुत्तमा ।
अपि सौवर्णिकेनाऽस्या, लवोऽपि नहि लभ्यते । । १७ ।।
षाण्मासिकोsपि यो रोगो ऽनया याति भवेत्र च । एतस्यास्तिलमात्रं तु यः प्राप्नोति स भाग्यवान् । । १८ ।।
अन्तःपुरीणामश्वानां, पौराणां च क्षणादभूत् । रोगोपशान्तिरेतस्याः, प्रभावात् किं बहूच्यते । । १९ ।।
भवतोऽभीष्टमित्रत्वा-देतावत् प्राभृतं ननु । प्रेषितं तेन भूपेन, तदिमां बहु मानय ।। २० ।।
हृष्टेन भूभुजा सर्व-सभ्यानां स्त्रीजनस्य च । स्तोका स्तोका पिता सप्र - भावत्वाज्जगृहे च तैः । । २१ ।।
दूतस्य तस्य राज्ञा तु, स्वर्णपञ्चशती वरा । तुरङ्गपट्टकूलादि, ददे तन्मुखयाचितम् ।।२२।।
सर्वं लात्वा समायातः, पत्तने भीमभूपतेः । तत्सर्वं दर्शयामास, हृष्टो राजाप्युवाच तम् ।। २३ ।
अरे ! त्वया तत्र गत्वा, किं किमुक्तं वदाऽधुना । सोऽप्युवाच यथोक्तं स्वं भूपोऽत्यर्थं विसिष्मये ।। २४ ।।
पुनरप्येकदा गर्व-परं तं नृपतिर्जगौ । गर्वं किं कुरुषे ? मूढ !, मत्प्रसादेन जीवसि ।। २५ ।।
२१८ उपदेश सप्तति /