________________
"उपदेश:-९" लोकोत्तरा कापि वचःकला भवे-नृणां प्रभूते सति भाग्यवैभवे । वाग्मी कुरूपोऽपि नृपादिभिर्यतो, मान्यो भवेड्डामरदूतवत्पुमान् ।।१।।
पत्तने कुरुते राज्यं, भीमो भूरिपराक्रमः । तस्यास्ति डामरो दूतो, द्विजोऽत्यन्तकुरूपवान् ।।१।।
परं वचस्वी सर्वत्र, नि:क्षोभः समयोचितम् । वेत्ति वक्ति च तेनैष, गर्वमुद्वहते हृदि ।।२।।
तदा च मालवे राजा, भोजोऽभङ्गुरभाग्यवान् । : दाता भोक्ता गुणी शूरः, प्रतापी विनयी नयी ।।३।।
तस्य पार्श्वेऽन्यदा भूप-स्तं दूतं प्रेषयन्नभूत् । तत्रं गत्वा त्वया वाच्यमेवमेवं च भो द्विज ! ।।४।।
चिरं तदुक्तमालोचं, श्रुत्वा कृत्वाऽवहीलनम् । तत उत्तिष्ठता तेन, वस्त्रप्रान्तो विधूनितः ।।५।।
किमेतदिति राज्ञोक्ते, सोऽब्रवीत्तव भाषितम् । अत्रैव निखिलं मुक्तं, ततो रुष्टो भृशं नृपः ।।६।।
तथा कुर्वे यथा तत्र, गतस्तत्रत्यभूभुजा । असौ विडम्ब्यते पापी, प्रत्यनीको ममोपरि ।।७।।
गूढकोपस्ततो भूपो, दुकूलबहुवेष्टनैः । रक्षां निबध्य सौवणे, निधाय च समुद्गके ।।८।।
२१६
उपदेश सप्तति