________________
वत्स ! गच्छ सुखं तेऽस्तु, जातिस्ते वारयिष्यति । प्रकृताविह जातानां, विकृतिर्नोपजायते ।।२६।।
क्षणात्पर्याणयांचक्रे, भूपस्तं सपरिच्छदः । बहिश्च जग्मिवान्यत्र, विद्यन्ते ते रिपुव्रजाः ।।२७।।
भूपेन हक्विता योध्धु, संमुखास्ते डुढौकिरे । एषोऽपि तैः समं युद्ध-क्रीडाकौतुकमन्वभूत् ।।२८।।
अथाश्वश्चिन्तयामास, दुष्टमेनं नृपाधमम् । मारयामि विपक्षेभ्यो, तत्सैन्ये वा नयाम्यहम् ।।२९।।
पातयित्वाऽथवा भूमौ, मध्नामि चरणैनिजैः । कुलीनत्वात्पुनर्दध्यो, हा ! धिग् मे दुष्टचेष्टितम् ।।३०।।
अयं हि पृथिवीपालः, पशोरपि पशुस्त्वहम् । ईदृक्षेऽवसरेऽनर्थे, यदसौ पात्यते मया ।।३१।। .
स्वकार्यकरणे भूयो, भाविनोऽवसरा मम ।। भूयांसोऽपीति निध्याय, युद्धाय प्रगुणोऽभवत् ।।३२।।
तत्सानिध्यात्ततो भूप-स्तं विजित्य रिपुव्रजम् । गृहीत्वा गोधनं प्राप्तः, स्वपुरे निर्मितोत्सवैः ।।३३।।
अस्यैवाश्वस्य साहाय्या-निर्जिता रिपवो मया । ततोऽयमेव पट्टाश्वो, भवतादपरैरलम् ।।३४।।
२११ उपदेश सप्तति