________________
मम जातेन केनापि, स्वामिद्रोहो न निर्मितः । कोहमसझं कुब्विजा, शास्त्रेऽप्येवं यदुच्यते ।।१७।।
तदुक्तिमित्याकर्येष, भस्मच्छन्नाग्निवन्मनाक् । . अभूच्छान्तो नहि क्रोधो, धीराणामुपयाशाम्यति ।।१८।।
श्रुतो व्यतिकरश्चाय-मासनस्थेन भूभुजा । तिर्यग्भाषापरिज्ञाने, देवादेशोऽस्ति तस्य यत् ।।१९।।
मम नूनमसौ शत्रु-विषमे क्वापि मामयम् । हनिष्यतीति नात्राहं, चटिष्यामि कदाचन ।।२०।।
विमृश्येति कियत्कालं, सुखेन व्यत्यलङ्घयत् । भूपः किशोरकोऽप्येष, जातो जात्यतुरङ्गमः ।।२१।।'
अन्यदा जलपानार्थं, नीते निखिलसाधने । स एवाश्वोऽभवद्गहे, तदा बुम्बारवोऽभवत् ।।२।।
,
भो भोः सुभटकोटीराः !, द्रुतं धावत धावत । जगृहे गोधनं सर्वं, परिपन्थिभिरुद्धतैः ।।२३।।
तदा च व्याकुलत्वेन, स एवाऽश्वः क्षमाभुजा । अधिकारिनरैः सजः, कारितो वाहराकृते ।।२४।।
गच्छन्नश्वोऽब्रवीत् स्वाम्बां, पश्य मातः ! पुरातनम् । वैरं निर्वालयाम्यद्य, सापि सप्रश्रयं जगौ ।।२५।।
२१०
उपदेश सप्तति