________________
प्रातःकाले कुमारस्त-द्वृत्तज्ञापनपूर्वकम् । स्वपित्रेऽदर्शयत्स्वर्णं, विस्मितः सोऽपि तं जगौ ।। २७ ।।
अरे मूर्ख ! त्वया स्तोक-मिदमात्तं कथं हहा ! । यत्नं विनापि हस्ताप्तं धनं को नाम मुञ्चति ।। २८ ।।
अद्याहं तत्र यास्यामि, तल्लास्यामि यथेप्सितम् । दारिद्र्यं द्रावयिष्यामि, निश्चिन्ता हि भवादृशाः ।। २९ ।।
इत्युक्त्वोत्थित्वान् श्रेष्ठी, लोभक्षोभवशंवदः । तद्ध्यानलीनंस्तदह-न्यभूत्तन्दुलमत्स्यवत् ।।३०।।
•
निशीथिन्यां तथैवैष, तत्काष्ठान्तः प्रविष्टवान् । प्रस्थितः सह ताभ्यां च तं प्रदेशमुपागमत् ।। ३१ ।।
ततो निर्गत्य पुत्रोक्ता-भिज्ञानादि स्मरन् हृदि । इष्टिकापाकमद्राक्षीत्, प्रत्यक्षमिव रैगिरिम् ।।३२।।
हृष्टस्तद्दर्शनाच्छ्रेष्ठी, ह्यसन्तुष्टः स इष्टिकाः । गृहीत्वा तत्तथा बधे, कष्टेनामास्त्वयं यथा ।। ३३ ।।
तथैव श्वश्र्वध्वी ते, चलिते स्वपुरीमभि । उदन्वदुपरि प्राप्ते, यावत्तावद्वधूरवक् ।। ३४ ।।
केनापि हेतुना मातः !, काष्ठमद्य महाभरम् । • न चलत्यग्रतः शीघ्रं श्वश्रूरप्याह तां प्रति ।। ३५ ।।
२०६ उपदेश सप्तति