________________
तस्मिन्नारुह्य तद्दत्त-मन्त्रशक्त्या च ते उभे । निशीथसमये यातः, क्रीडार्थं स्वेप्सिते पदे ।।९।।
एकदा कायचिन्तार्थं, निशीथे पुत्र उत्थितः । . सुप्ताशेषजनेऽद्राक्षी-त्कौतुकं रहसि स्थितः ।।१०।।
श्वश्रूवध्वौ तदोत्थाय, सौत्सुक्यं निभृतक्रमम् । त्वर्यतां त्वर्यतामेव-मूचतुश्च मियो मुदा ।।११।।
सोऽप्यभूद्यावदुत्कर्णः, श्वश्रूस्तावदुवाच ताम् । अरे ! काष्ठमिदं शीघ्रं, सज्जीकुरु पुरो भव ।।११२।।
आत्मनामस्ति गन्तव्यं, दूरे तन्मा विलम्बय । इत्युक्त्वा ते उभे तत्रा-रूढे तन्मन्त्रपूर्वकम् ।।१३।। ,
तत उत्पतिते व्योम्नि, व्यन्तर्याविव ते उभे । इत्याश्चर्यं तदालोक्याऽचिन्तयद्देवलस्तदा ।।१४।। ,
अहो ! किमेते शाकिन्यौ, पापिन्यौ पतिवञ्चिके । गते कुत्र कदा पश्चा-देते चात्रागमिष्यतः ।।१५।।
इत्यसौ जाग्रदेवास्थात्, तत्र ते यावदागते । ततः क्षणान्तरे जातः, प्रातःकालो विकस्वरः ।।१६।।
स तयोस्तादृशं वृत्तं, न कस्यापि न्यवेदयत् । परेषां दूषणानीव, प्रायश्चित्तप्रदो गुरुः ।।१७।।
२०४ उपदेश सप्तति