________________
तदानीं तं नृपोऽपृच्छदरे ! किमिदमद्भुतम् । सोऽपि वृत्तान्तमाचख्यौ, दुःसुतप्रेरणादिकम् ।।२८।।
तं तत्सुतं च ते लोकाः, धिक्कुर्वन्तीति रे ! युवाम् । अकृषाथामिदं किं य-न्मित्रेऽपि द्रोहकारिता ।।२९।।
पापबुद्धिस्ततो राज्ञा, मार्यमाणोऽपि वारितः । लगित्वा पादयोधर्म-बुद्धिना शुद्धबुद्धिना ।।३०।।
धर्मबुद्धस्तदा श्लाघां, निन्दां पापमतेस्तथा । भूपाद्याश्चक्रिरे माया, कटरेऽत्रैव दुःखदा ।।३१।।
एवं बभूवाऽशठवक्रभावयुग्, तन्मित्रयुग्मं सुखदुःखभाजनम् । मायां भुजङ्गीमिव दूरतस्ततो-ऽवदातचित्तास्त्यजत द्रुतं जनाः ! ।।३।।
॥ इति श्रीउपदेशसप्ततिकायां चतुर्थेऽधिकारे. पञ्चम उपदेशः ।।५।।
२०२ उपदेश सप्तति !